SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सेनप्रभे ३ उल्लासः ॥ ५५ ॥ Jain Education भगवतः छद्मस्थावस्थायां कायोत्सर्गस्थस्योपरि संवर्त्तकपक्षिपरिहाराय वन्दनागतधरणेन्द्रेण वैक्रियपञ्चाङ्गुलकरो धृत इति, अत्रार्थे वसुदेवहिण्डिद्वितीयखण्डोऽवलोकनीयः, कथावलीप्रथमखण्डेऽप्युक्तं ' नवफणरयणाहरणेहिं तेहिं समोसरणे सक्केण विउविज्जइ तिविहंपि सुपाससीसाई, "इग पण नव य सुपासो, पासो फण तिन्नसगइगार कमा । फणिसिज्जासुविणाओ, फर्णिदभत्तीए नन्नेसु " ॥ १ ॥ इति वचनात् सुपार्श्वपार्श्वनाथयोः फणकृतिर्ज्ञेयेति ॥ ८३ ॥ तथा - ' नवहं मासाणं बहुपडिपुत्राणं अद्धट्टमाणराइंदियाण' मित्यत्र नव मासाः सप्त रात्रय एव भवन्ति यतो यस्य मध्यरात्रावुत्पत्तिः तस्य मध्यरात्रावेव च जन्म तर्हि कथं सार्धाः सप्त रात्रयः प्रोक्ता इति ? प्रश्नोऽत्रोत्तरं - भगवज्जन्मनि नव मासाः सप्त रात्रय एव भवन्ति, परं सिद्धांत शैलीवशात् 'अट्टमाण इंदियाण' मिति पाठो ज्ञायत इति ॥ ८४ ॥ तथा---केवलिनां कति परीषहा भवन्तीति ! प्रश्नोऽत्रोत्तरम् - केवलिनां क्षुधा १ तृषा २ शीतो ३ प्ण ४ दश १ चर्या ६ शय्या ७वध ८ रोग ९ तृणस्पर्श १० मल १९१ रूपैकादश परीषहा भवन्तीति भगवत्यष्टमशतके नवमोद्देशके इति ॥ ८५ ॥ तथा - अनुत्तरविमानेषु जीवः कति भवान् करोतीति ? प्रश्नोऽत्रोत्तरम् - विजयादिषु उत्कर्षतो वारद्वयं, सर्वार्थसिद्धिविमाने एकवारं इति जीवाभिगमवृत्तौ, 'विजयादिषु द्विचरमा' इति तत्त्वार्थसूत्रचतुर्थाध्याये, सर्वार्थसिद्धिविमानादागतोऽनन्तरभवे सिद्धयत्येव, विजयादिचतुर्षु गतो मनुयेssवायाति, तत्रापि जघन्येन एकं द्वौ वा भवौ उत्कर्षतश्चतुर्विंशतिभवान्, तत्र नरभवेऽष्टौ देवभवेऽष्टौ भूयो नरभवेऽष्टौ ततः सिद्धयत्येव, विजयादिषु द्विरुत्पन्नस्य नियमात् सिद्धिरनन्तरभव एवेति प्रघोषः, प्रज्ञापनायां संख्यातमवानिति ॥ ८६ ॥ For Private & Personal Use Only श्रीशुभवि० १-१२० ॥ ५५ ॥ Ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy