SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ वन्दनकदानानन्तरं प्रत्याख्यानकरणविधिर्नास्ति, मुखपोतिका तु प्रतिलेखिता युज्यते, यस्मात्तां विना प्रत्याख्यानं न शुद्धयतीति सामाचार्यस्ति, तथोपधानेऽपि तथैव करणादिति ॥ ७९ ॥ तथा-प्रतिवासुदेवमाता कति स्वप्नान्पश्यतीति ? प्रश्नोऽत्रोत्तरं-सा त्रीन स्वप्नान् पश्यतीति, यदुक्तं श्रीअजितसिंहमूरिकृतशान्तिचरित्रे षष्ठप्रस्तावे-" प्रत्यर्द्धचक्रिणां त्रीश्चान्येषामुत्तमजन्मिनाम् । एकैकमम्बिकाः स्वप्नं, पश्यन्त्येषां हि मध्यतः ॥ १९ ॥” इति, तथा सप्ततिशतस्थानकेऽपि, किं च-स तान् गज १ कुम्भ २ वृषभा ३ ख्यान् पश्यतीति परम्परया ज्ञेयम् ॥ ८॥ तथा-स्वयम्बुद्धाः प्रत्येकबुद्धाश्च नग्ना अनग्ना वेति ? प्रश्नोत्रोत्तरं-स्वयम्बुद्धानां पात्रादिादशविध उपधिस्तद्यथा-"पत्तं १ पत्ताबंधो २ | पायट्टवणं च ३ पायकेसरिया ४ । पडलाइँ ५ रयत्ताणं १, गुच्छओ ७ पायनिज्जोगो ॥ १॥ तिन्नेव य पच्छागा १० रयहरणं चेव ११ होइ मुहपत्ती १२ " इति, प्रत्येकबुद्धानां तु जघन्येन रजोहरणमुहपत्तिरूपो द्विविधः, उत्कृष्टतस्तु चोलपट्टक १ मात्रक २ कल्पत्रिकवों ५ नवविध इति पाक्षिकसूत्रबृहद्वृत्ती, एतद्नुसारेण स्वयम्बुद्धाः प्रत्येकबुद्धाश्च चोलपट्टाभावेन सप्रावरणा अपि नग्ना एव ज्ञायन्ते इति ॥ ८१ ॥ | तथा–प्रथमाङ्गस्याष्टादशसहस्रपदानि सन्ति, तत्रैकपदप्रमाणं किमिति प्रश्नोत्रोत्तरं-" पढमं आयारंग, अठारसपयसहस्सपरिमाणं । एवं सेसंगाविहु, दुगुणादुगुणप्पमाणाई ॥ १॥" एवमेकादशाङ्गानां त्रिकोटीसप्त (अष्ट) षष्टिलक्ष (षट्) चत्वारिंशत्सहस्रपदानि भवन्ति, तत्रैकपदस्य | ५१०८८६८४० एतावन्तः श्लोका अष्टाविंशत्यक्षराणि च भवन्तीत्यनुयोगद्वार ( कर्मग्रन्थ ) वृत्ताविति ।। ८२॥ तथा—सुपार्श्वनाथस्यैका पञ्च नव च फणाः क्रियन्ते तत्कथमिति प्रश्नोऽत्रोत्तरं-" जेणेगपंचनवसिरासु नागसिज्जासु तिसुवि पत्तेयं । | जणणी सुमिणे पिच्छइ, गब्भत्थस्सावि सामिस्स ॥ १॥ तेणेगाइफणा नेया । सुपार्श्वफणपञ्चककृताविदमपि कारणं पूर्वाचार्या [ एवं ] वदन्ति Jain Education , For Private & Personal Use Only lainelibraryong
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy