________________
सेनप्रश्न ३उल्लासः
श्रीशुमविक १-४९७
॥५३॥
तथा-चक्रवर्त्तिनो मागधादौ कत्यष्टमान् कुर्वन्तीति ! प्रश्नोत्रोत्तरं-मागधस्तूप १ वरदामस्तूप २ प्रभासस्तूप ३ वैताब्वदेवसाधन ४- तिमिस्रादेवसाधन ५ नमिविनमिदेवसाधन ६ सिंधुदेवीसाधन ७ चुल्लहिमवत्साधन ८ गङ्गादेवीसाधन ९ नवनिधानप्रकटीकरणा १० योध्या- नगरीप्रवेशकरणाथै ११ चक्रिणोऽनुक्रमेणैकादशाष्टमान् कुर्वन्तीति जम्बूद्वीपप्रज्ञप्तिसूत्रे, तीर्थकृच्चक्रिणोऽष्टमान्न कुर्वन्तीत्यपि शान्तिचरित्रे | ऽस्तीति ज्ञेयम् ॥ १५॥
तथाचक्रित्वं प्राप्य पुनश्चक्रित्वं कियता कालेन प्राप्यत इति ? प्रश्नोऽत्रोत्तरं-उघन्यतः साधिकसागरेणोत्कृष्टतोऽनन्तकालेन तत् | प्राप्यते इति भगवती ११ शतके ॥ १६ ॥
तथाकश्चित्पञ्चेन्द्रियजीवं हन्यमानं मोचयति तदभयदानमनुकम्पादानं वा कथ्यत इति प्रश्नोऽत्रोत्तरं-तदभयदानं कथ्यते, यतः श्रीशान्तिनाथजीवेन पूर्वभवे पारापतो मोचितस्तदभयदानं पुष्पमालावृत्तौ कथितमस्तीति ॥ १७॥
तथा-उपधानवाहिना तपोदिने कल्याणकतिथिरायाति तदा तेनैव तपसा सरति नवेति ! प्रश्नोऽत्रोत्तरं-बद्धतपस्त्वात्तेन तपसा सरतीति ज्ञायते, अन्यथा चतुर्दश्यादिष्वेकाशनकं कृत्वाऽग्रेतना कल्याणकतिथिराराध्यत इति ॥ १८॥
तथा—नारदास्सर्वेऽपि मोक्ष एव यान्ति स्वर्ग वोत ! प्रश्नोऽत्रोत्तरं-नारदा मोक्षं स्वर्ग च यान्तीति ऋषिमण्डलवृत्तौ, किञ्च-ते पूर्व मिथ्यात्विनः पश्चात्सम्यक्त्वभाजस्तत्रैवोक्ता इति, अन्यच्च भीम १ महाभीम २ रुद्र ३ महारुद्र ४ काल ५ महाकाल ६ चतुर्मुख, ७ नवमुख -- उन्मुखा ९ एवंविधनामान्यपि सन्तीति ॥ १९॥
us.
For Private Personel Use Only
Iw.jainelibrary.org