________________
तथा-सिन्धुदेशे श्रीवीरस्वामिगमने पञ्चशताधिकसहस्रसाधुभिरनशनं कृतं तदक्षराणि प्रसाद्यानीति ? प्रश्नोऽत्रोत्तरं-तदक्षराणि निशीथ| चूण्णौँ सन्ति, तथा श्रूयते च अप्कायमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, तथा | श्रीवर्द्धमानस्वामिना विमलसलिलशैवलपटलत्रसादिरहितो महाद्रहो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्वाधितानामपि
पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थ च, इत्या| चाराङ्गप्रथमाध्ययनतृतीयोद्देशकवृत्ताविति ॥ ७० ॥ । तथा-अन्धकारे आहारकरणे रात्रिभोजनदोषो लगति नवेति ! प्रश्नोत्रोत्तरं-जे चेव रयणिभोयणदोसा ते चेव संकडमुहमि । जे चेव संकडमुहे, ते दोसा अंधयारंमि ॥ १॥ इत्योपनियुक्तिवचनात् रात्रिभोजनदोषो लगतीति ज्ञायते ॥ ७१॥
तथा ब्राह्मीसुन्दरीभ्यां पाणिग्रहणं कृतं नवा ! केचन कथयन्ति-भरतेन सुन्दरी बाहुबलिना ब्राह्मी परिणीता, तर्हि बाहुबलवर्षकायोत्स| र्गान्ते ताभ्यां भ्रातर्गजादुत्तरेत्युक्तं तत्कथमित ? प्रश्नोऽत्रोत्तरं-भरतबाहुबलिम्या विपरीततया पाणिग्रहणं कृतरित्यक्षराणि आवश्यकमलयगिरिवृत्तौ सन्ति, यत्तु ताभ्या भ्रातर्गनादुत्तरेत्युक्तं तत्प्राक्तनभातृसम्बन्धात् द्वाभ्या समुदिताभ्यां कथनात् यतितया च युक्तिमदेवेति ॥ ७२ ॥
तथा-जोलेश्यायाः पुद्गलाः सचित्ता अचित्ता वेति प्रश्नोऽत्रोत्तरं-लब्धिः पुद्गलरूपा न भवति, शक्तिरूपा भवति, परं तेजोलेश्यापुद्गला जीवेन मुखाज्जीवप्रदेशसहिता निष्कासितास्तस्माजीवप्रयोगनिष्काशितत्वात् सचित्ता ज्ञायन्ते इति ॥ ७३ ॥
तथा देशविरतिसम्यक्त्वधारिणौ द्वादशदेवलोके यातो नवति ? प्रश्नोऽत्रोत्तरं-तौ:द्वावप्युत्कृष्टतो द्वादशदेवलोके यात इत्यक्षराणि पन्नवणासूत्रे वृत्तौ च सन्तीति ।। ७४ ॥
Jain Educat
i onal
For Private & Personel Use Only
jainelibrary.org