________________
" सोऽप्युवाच महाप्राणध्यानमारब्धमस्ति यत् । साध्यं द्वादशभिर्व गमिष्याम्यहं ततः ॥ ६१॥ महाप्राणे हि निष्पन्ने, कार्ये कस्मिंश्चिदागते । सर्वपूर्वाणि गण्यन्ते, सूत्रार्थाभ्यां मुहूर्ततः ॥ ६२ ॥” इति, इयमपि लब्धिः केषाञ्चित् न सर्वेषां पूर्वविदामित्यपि ज्ञेयमिति ॥ ६ ॥ | तथा-अप्रासुकोदकमोदकादिकं सचित्तविकृतिमध्ये गण्यते द्रव्यमध्ये वेति प्रश्नोऽत्रोत्तरं-- श्राद्धविधौ सचित्तविकृतिवज्ज यन्मुखे क्षिप्यते तद्रव्यमध्ये गण्यते इति वचनात्प्रासुकनीरोष्णोदकतन्दुलधावनोदकादीनां सचित्तत्वाभावाव्यमध्ये गणनं मुद्गमोदकभेषजलड्डुकनिर्विकृतघृतादिनां विकृतित्वाभावाद् द्रव्यमध्ये गणनं च क्रियते, तथैकस्मिन्नपि द्रव्ये पोलिका क्षोभितपोलिका लहचूई सप्तपुटिका गडदादिभेदेन भिन्ननामरसत्त्वादवत्वात् पृथक् पृथक् द्रव्यमध्ये गण्यते, अप्रासुकजलमोदकादिकं तु सचित्तविकृतिमध्ये गण्यते, अधुना केचन द्रव्यमध्येऽपि गणयन्तो दृश्यन्ते, किश्च रूप्यादिधातुशिलाकादिमुखे क्षिप्यते तद्दव्यमध्ये न गण्यते, रसास्वादाभावात् ॥ ११ ॥
तथा-लोका जिनकल्पिनं नग्नं पश्यन्ति नवेति ? प्रश्नोऽत्रोत्तरं--लोकास्तं नग्नं पश्यन्ति,यतः शास्त्रे लज्जाजेता जिनकल्पमङ्गीकरोतीति ॥१२॥
तथा-औषधरसाङ्गमध्ये क्षिप्तं वत्सनागादिकमभक्ष्यं भवति नवेति प्रश्नोऽत्रोत्तर- औषधादिमध्ये क्षिप्तं वत्सनागभङ्गिपोस्ताहिफेनादिकमौषधनिमित्तं गृहीतमभक्ष्यं न भवति परं कन्दार्थ गृहीतं त्वभक्ष्यं भवतीति ॥ १३॥
तथा-सार्द्धद्वीपद्वये जघन्योत्कृष्टत एकस्मिन् समये तीर्थकृतां कत्यभिषेकाः तथा तत्र कत्यरका भवन्तीति प्रश्नोऽत्रोत्तरं-सार्द्धद्वीपद्वये जघन्यत एकसमये दश तीर्थङ्करा मेरुपञ्चके शरैरभिषिच्यन्ते उत्कृष्टतस्तु विंशतिः, तथा तत्र जघन्यतश्चत्वारोऽरका उत्कृष्टतस्तु पञ्च भवन्तीति ज्ञायते ॥ ६४ ॥
Jain Education
For Private & Personel Use Only
N
a inelibrary.org