SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तथा प्रागुढयोगस्य शैक्षस्य गुरुदीक्षानन्तरमुपस्थापनाया अर्वाङ् मण्डलयामतीचारादिकं कथितं शुद्ध्यति नवेति ! प्रश्नोत्रोत्तर-तस्यगुरुदक्षिानन्तरमुपस्थापनाया अर्वाग् मण्डल्यामतिचारादिकं कथितं न शुद्धचतीति परम्पराऽस्तीति ॥ ५५॥ तथा—सास्तीर्थकृन्मातरश्चतुर्दश स्वप्नान् मुखे प्रविशतः पश्यन्त्युत काँश्चिदिति ! प्रश्नोऽत्रोत्तरं-सास्तीर्थकृज्जनन्यश्चतुर्दश स्वप्नान् मुखे प्रविशतः पश्यन्ति, यदुक्तम्-" वृषभः कुञ्जरः सिंहः, पद्मवासाभिषेचनम् । पुष्पदाम शशी सूर्यः, पुर्णकुम्भः सितध्वजः ।। १॥ पद्माकरः पयोराशिविमानं कल्पवासिनाम् । रत्नोच्चयः शिखी चेति, प्रविशन्तो मुखाम्बुजे ॥ २॥ इति सम्यक्त्वरहस्यवृत्तौ १४ पत्रे श्रीहेमचन्द्रमरिकृतवीरचरित्रेऽप्येवमेव, तथाच देवानन्दया प्रविशन्तो निष्कामन्तश्च स्वप्ना दृष्टाः, त्रिशलया प्रविशन्त इति हारिभद्रीयवृत्तौ, तथा अचिरा चतुर्दश स्वप्नान् मुखे प्रविशतः पश्यतीति वेश्मरत्नाख्यशान्तिचरित्रे इति ग्रन्थानुसारेण तीर्थकृन्मातरश्चतुर्दश स्वप्नान् मुखे प्रविशतः पश्यन्तीतिभावः ॥ ५६॥ तथा-सिद्धानां ज्ञानदर्शनचारित्रवीर्याण्यनन्तानि प्रोक्तानि तत्कथं घटते ? तेषां पृथक् पृथगेकैकसद्भावात् तद्वयक्त्या प्रसाद्यमिति प्रश्नो त्रोत्तरं-ज्ञानादीनां चतुणी तदावरणकर्मपुद्गलानामनन्ताना क्षयात्तेषामप्यानन्त्यं घटत एव, यदुक्तं "ज्ञानादयस्तु भावाः प्राणमुक्तोऽपि जीवति स तैर्हि । तस्मात्तज्जीवत्वं नित्यं सर्वस्य जीवस्य ॥५१॥ अनन्तं केवलज्ञानं, ज्ञानावरणससयात् । अनन्तं दर्शनं चापि, दर्शनावरणक्षयात् ॥ २॥ क्षायिके शुद्धसम्यक्त्वचारित्रे मोहनिग्रहात् । अनन्तसुखवीर्ये च, वेद्यविनक्षयात् क्रमात् ॥ ३ ॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगो अक्षयादेवाऽनन्ताऽमूर्ताऽवगाहना ॥ ४ ॥"इति ॥ ५७ ॥ तथौपपातिकसूत्रे 'पन्ताहारे' इत्यस्य वृत्तौ साधवः पर्युषितं वल्लुवणकाद्याहारयन्तीति व्याख्यातमस्ति, तत्र पर्युषितशब्देन किमुच्यत इति Jain Educ a tional For Private Personal Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy