________________
सेनप्रश्नेका
श्रीशुभवि०
३ उल्लासः
॥५१॥
वन्दारुवृत्तौ 'सिद्धाणं बुद्धाण' मित्यस्याद्यास्तिस्रो गाथा गणधरकृता इत्युक्तमस्ति, तथा पाक्षिकसूत्रे नमो तेसिं खमासमणाणमित्यत्र सर्वत्रालापके सामान्येनैवैककर्तृकत्वं दृश्यते, आवश्यकं च मूलसूत्रं मूलसूत्राणि चागमः ततो गणधरकृतमित्यापन्नं, तथा सकलसिद्धान्तादिपुस्तकटिप्पासु ‘षडावश्यकमूलसूत्राणि सुधर्मस्वामिकृतानी ' ति लिखितमस्ति, तथा — सामाझ्यमाइयाई एक्कारसअंगाई अहिज्जइ ' इत्याद्युक्तेश्चेति ज्ञेयम् ॥ १२ ॥
__ तथा-नगरस्थितवृद्धलघुगीतार्थैः शाखापुरे शय्यातरगृहं कृतं, तत्रस्थगीताषैस्तद्गृहे आहारादिकं ग्राह्यं नवा ! तथा शाखापुरस्थगीताथै- | नगरमध्ये शय्यातरगृहं कृतं भवति तदा तत्रस्थगीताथैस्तद्गृहे आहारादिकं ग्राह्यं नवा ! तथा क्रोशत्रयावधि वृद्धगीतार्थैः शय्यातरगृहं कृतं तत्पालनीयं नवेति ? प्रश्नोत्रोत्तरं-नगरस्थितगीतार्थैः शाखापुरे शय्यातरगृहं कृतं भवति तदा तद्गृहे नगरस्थगीतार्थादिभिस्तत्रस्थसाधुभिश्चाहारादिकं न ग्राह्य, तथा शाखापुरस्थगीतार्थेनगरमध्ये शय्यातरगृहं कृतं भवति तदा तद्गृहे तत्रस्थसाधुभिः शाखापुरस्थसाधुभिश्चाहारादिकं न ग्राह्यं, परं परस्परं तद्गृहं ज्ञापनीयं, तथा क्रोशत्रयावधि वृद्धकृतशय्यातरगृहं मुख्यवृत्त्या सर्वैरपि साधुभिः पालितं युज्यते, परमधुना स विधिः | सत्यापयितुं न शक्यते तथापि यदा ज्ञायते तदा सत्याप्यते इति परम्पराऽस्तीति । किञ्च यत्रोषितास्ततः स्थानात् यस्यां वेलायां निर्गता | द्वितीयदिने तावत्याः वेलायाः परतोऽशय्यातरो भवतीत्यावश्यकटिप्पनके इति ज्ञेयम् ॥ १३॥
तथा-मुल्कलश्राद्धः स्थापनाप्रतिलेखनां करोति तदा पडिलेहणा पडिलेहावु इत्यादेशं मार्गयित्वा प्रतिलिखत्यन्यथा वेति ? प्रश्नोत्रोत्तरं| मुत्कलश्राद्धः प्रतिलेखनादेश मार्गयित्वा मुखवत्रिका प्रतिलिख्य परिधानवस्त्रं परावृत्त्य च स्थापनाः प्रतिलिखति, परं पौषधसामायिकं विना पडिलेहणा पडिलेहावु इत्यादेशं न मार्गयतीति परम्पराऽस्तीति ॥ ५४॥
For Private
Personal Use Only