________________
Jain Educat
तथा - गणीनां पुरः श्राद्धा श्राद्धश्च पौषधादेशं मायन्ति तदा गणय आदेशं ददति नवेति प्रश्नोऽत्रोत्तरं उपधानादिविशेषक्रियां विना पौषधं कुर्व्वतां श्राद्धादीनां गणय आदेशं न ददति, श्राद्धादयस्त्वादेशं मार्गयित्वा पौषधादिक्रियां कुर्व्वन्तीति वृद्धपरम्पराऽस्तीति ॥ ४९ ॥
तथा — केवलिभिर्यस्मिन् काले येषां जीवानां मोक्षगमनं दृष्टं तस्मिन्नेव काले ते जीवा मोक्षं यान्ति नवेति ? केचन वदन्ति - पुण्यं पापं च कुर्व्वतां जीवानां कालस्थितेर्हानिर्वृद्धिश्च भवतीति ! प्रश्नोऽत्रोत्तरं येषां जीवानां यस्मिन् काले केवलिभिर्मोक्षगमनं दृष्टमस्ति तस्मिन्नेव काले ते जीवा मोक्षं यान्ति परं केवलिभिः सर्व्वसामय्यपि सहैव दृष्टाऽस्ति, तस्मान्न काऽप्याशङ्केति ॥ ५० ॥
तथा–सन्ध्याप्रतिक्रमणे पडावश्यकसूत्राणि कानीति ? प्रश्नोऽत्रोत्तरं नमो अरिहंताणमित्यादि सम्पूर्णनमस्कारः करेमि भंते ! सामाइअमित्यादितः अप्पाणं वोसिरामीत्यन्तं प्रथमं सामायिकाध्ययनम् १ || लोगस्स उज्जोअगरे इत्यादितः सिद्धा सिद्धि मम दिसंतु इत्यन्तं द्वितीयं चतुर्विंशतिस्तवाध्ययनम् २ || इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहिआए अणुजाणह मे मिउग्गहमित्यादि तृतीयं कन्दनकाध्ययनम् ३ ॥ चत्तारि मङ्गलं, इच्छामि पडिक्कमिउं जो मे देवसिओ, इच्छामि पडिक्क० इरिआवहिआए० इच्छामि पडिक्कमिउं पगामसिज्जाए० इत्यादि चतुर्थ प्रतिक्रमणाध्ययनम् ४ ॥ इच्छामि ठामि काउस्सगं० तस्स उत्तरीकरणेणं० अन्नत्थ उससिएणं० सव्वलोए अरिहंतचेइआणं • पुक्खरवरदी ० सिद्धाणं बुद्धाणं वेआवञ्चगराणं० इच्छामि खमासमणो अब्भुट्टिओमि अभितरदेवसिअं खामेउं० इच्छामि खमासमणो ! पिअं च मे जं में इत्यादि पञ्चमं कायोत्सर्गाध्ययनम् १ ॥ उग्गए सूरे नमुक्कारसहिअं पञ्चक्खामीत्यादि सर्व्वाण्यपि प्रत्याख्यानसूत्राणि षष्ठं प्रत्याख्यानाध्ययनम् ६ ॥ च, इमानि प्रतिक्रमणे षडावश्यकसूत्राणि परम्परया ज्ञेयानीति ॥ ५१ ॥
तथा --- पडावश्यकमूलसूत्राणि गणधरकृतान्यन्यकृतानि वेति ? प्रश्नोऽत्रोत्तरं - पडावश्यकमूलसूत्राणि गणधरकृतानीति सम्भाव्यते, यतो
national
For Private & Personal Use Only
Towww.jainelibrary.org