SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने ३उल्लासः श्रीशुभवि १-४९७ ॥५०॥ तथा-श्राद्धानां त्रिफलापानीयग्रहणं कुत्र ग्रन्थेऽस्तीति ! प्रश्नोऽत्रोत्तरं-निशीथभाष्ये ' तुवरीफले अ पत्ते, रुक्खसिलातुप्पमद्दणाईसु । पासंदणे पवाए, आयवतत्ते वहे अवहे ॥ १ ॥ ' इयं गाथा, एतच्चूर्णी व्याख्यालेशो यथा-तुवरीफला हरितक्यादय इत्यादिवचनात्रिफला मिश्रितं पानीयं प्रामुकं भवतीति ॥ ४६॥ तथा-तुर्यव्रतप्रत्याख्यानिश्रेष्ठिविजयश्राविकाविजययोः प्रतिलाभने चतुरशीतिसहस्रसाधुपतिलाभनपुण्यं भवतीति अक्षराणि कस्मिन् ग्रन्थे सन्ति ? कस्य तीर्थङ्करस्य वारके चैतज्जातमिति व्यक्त्या प्रसाद्यमिति ? प्रश्नोत्रोत्तरं-अयं सम्बन्धः प्रघोषेण श्रुतोऽस्ति, प्रकारान्तरेण त्वेवं यथा--वसन्तपुरे शिवङ्करश्रेष्ठी श्रीधर्मदाससूरिपार्थे हर्षेण भणति,-मम लक्षसाधर्मिकभोजनप्रदानमनोरथोऽस्ति, परं किं करोमि तथाविधं धनं नास्ति, गुरुभिरमाणि-याहि भृगुकच्छे श्रीमुनिसुव्रतस्वामिवन्दनार्थ, तत्र जिनदासाभिधः श्राद्धो भार्यासुहागदेवीयुतो वस्त्रभोजनाद्यलङ्करणीयस्तद्वात्सल्येन लक्षसाधर्मिकभोजनदानपुण्यं भविष्यति, ततस्तेन तथा कृतं, तदनु पृष्टं चतुष्पथे भो जिनदासः सुकृती कीदृशोऽस्ति सत्यो वा दाम्भिको वा !, लोकाः कथयन्ति, शृणु-स सप्तवार्षिको गुरुमुखात् शीलोपदेशमालाव्याख्यां श्रुत्वा एकान्तरितब्रह्मव्रतं प्रतिपन्नवान् , एवं सुहागदेव्याऽपि साध्वीपार्थे एकान्तरितशीलवतं प्रतिपन्नं, भवितव्यवशात् परस्परं पाणिग्रहणं जातं, ततो यस्मिन् दिने जिनदासस्य मुत्कलं तस्मिन् दिने सुहागदेव्या नियमः यस्मिन्दिने तस्या मुत्कलं तस्मिन् तस्याभिग्रहः, तदनु गुरुसमीपे यावज्जीवमेव ब्रह्मव्रतं-प्रतिपन्नमिति उपदेशतरङ्गिणीग्रन्थानुसारेण उपदेशरसालVI ग्रन्थानुसारेण च तत्प्रतिलाभने लक्षसाधर्मिकप्रतिलाभनपुण्यं भवतीत्यक्षराणि सन्ति ॥ ४७ ॥ तथा—गीतार्थेन प्रातः स्वाध्याये क्रियमाणे श्राद्धाः समायान्ति, ते सज्झाय करूं इत्यादेशं मार्गयन्ति उत सज्झाय सांभलु इत्यादेशं इति ? प्रश्नोऽत्रोत्तरं-स्वाध्यायान्तः समागताः श्राद्धाः सज्झाय करूं इत्यादेशं मार्गयन्तीति वृद्धपरम्पराऽस्तीति ॥ ४८॥ ॥५०।। Jain Education I onel For Private & Personel Use Only Milainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy