SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तथा—साधुवत्साध्वी चारणश्रमणलब्धिमती भवति नवेति ! प्रश्नोत्रोत्तरं-साधुवत्साध्वी चारणश्रमणलब्धिमती न भवति, यतः स्त्रीणां । | तल्लब्धिनिषेधो लब्धिस्तोत्रे दशाश्रुतस्कन्धे च कथितोऽस्तीति ॥ ४१ ॥ तथा–पञ्चानां निर्ग्रन्थानां मध्ये आहारकशरीरं कः करोतीति ? प्रश्नोऽत्रोत्तरं-पञ्चानां निर्ग्रन्थानां मध्ये कषायकुशीला निर्ग्रन्था | आहारकशरीरं कुर्वन्तीति श्रीभगवतीसूत्रवृत्तौ २५ शतके पञ्चनिर्ग्रन्थीसूत्रावचूर्णौ च प्रोक्तमस्तीति ॥ ४२ ॥ तथा-पञ्चमारके पक्षिणामायुः कियन्मानं विद्यते इति ? प्रश्नोऽत्रोत्तरं-" मणुआउ सम गयाई, हयाइ चउरंसऽजाइ अटुंसा । गोमहि-/ सुट्टखराई, पणंस साणाइ दसमंसा ॥ ४२ ॥ इचाइ तिरिच्छाणवि, पायं सव्वारएसु सारिच्छं । " इति वीरंजयसेहराभिधक्षेत्रविचार-IN वृत्तौ कालसप्तत्यामपि तथैव तिरश्चामपि प्रायः सर्वारकेषु सादृश्यमिति भणनात्पञ्चमारकेऽपि पक्षिणामप्यायुमनुष्याद्यायुरपेक्षया हीयमानं सम्भाव्यते, न तु क्वापि नामग्राहं चतुर्थभागादिनिश्चयः प्रतिपादितोऽस्तीति ॥ १३ ॥ तथा पाक्षिकचातुर्मासिकसांवत्सरिकक्षामणकानि तत्तपांसि च कियद्दिनानि यावत्कृतानि शुद्धयन्तीति ! प्रश्नोऽत्रोत्तरं-तत्क्षामणकानि तत्तपांसि च यथाक्रम द्वितीयां पञ्चमी दशमी च यावत्कृतानि परम्परया शुद्धयन्ति, किञ्च पाक्षिकाद्यागपि यथासम्भवं तत्तपांसि प्रापणी| यानीति श्रद्धेयम् ॥ ४४॥ तथा-उद्योते उद्योतिका लगति नवेति ? प्रश्नोऽत्रोत्तरं-शरीरोद्योतिकयोरन्तराले चन्द्रोद्योते सत्युद्योतिका लगति, चन्द्रोद्योते शरीरलग्ने सति उद्योतिका न लगतीति परम्पराऽस्ति, तथा खरतरकृतसन्दोहदोलावलीग्रन्थेऽपि तथैवोक्तमस्तीति ॥ ४५ ॥ Jain Educat ton For Private & Personel Use Only w.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy