SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ N सेनप्रश्ने ३ उल्लासः श्रीशुभवि० १-४९७ ॥४९॥ तदीयविमानत्वेन भण्यमानो न दोषावह इति, तदभिव्यञ्जकं जिनजन्मोत्सवादी शक्रसिंहासनमण्डनवत्तदनमहिषीसिंहासनमण्डनवच्च चतुरशीति| सहस्रसामानिकदेवानामपि तदर्हसिंहासनमण्डनमेवावसेयं, यदि ते सामानिकाः शक्रविमानवासिनो न स्युः ततः कथमिव तेषा सिंहासनानि | शक्रविमाने मण्डितानि भवेयुरित्यपि स्वधिया प-लोच्यं, 'सयंसि विमाणंसि' इत्यादि पाठावलोकनेऽपि न कोऽपि व्यामोहः कार्यः, एवं च विमानाधिपतयः सम्यग्दृशो भवन्तीति आगमिकयुक्तेः आगमप्रामाण्यात् तत्सिद्धस्यार्थस्यापि प्रामाणिकत्वं प्रतिपत्तव्यमेव, यदुक्तं,-- 'तह वक्खाणेअव्वं, जहा जहा तस्स अवगमो होई । आगमिअमागमेणं, जुत्तीगम्मं तु जुत्तीए ॥ १॥ त्ति, पञ्चवस्तुके यथा, नवरं चन्द्रविमाने चन्द्र उत्पद्यते तत्सा. मानिकात्मरक्षकादयश्चति चन्द्रप्रज्ञप्तयष्टादशमाभृतकवृत्तिप्रान्तेऽस्तीति अतोऽपि सङ्गमको न पृथक् विमानाधिपातरित्यवसीयते । इति विमानाधिपतयस्सम्यग्दृष्टय एवेति व्यवस्थितम् ॥ ३७ ॥ तथा-समवसृतौ पुष्पाणि वैक्रियाण्यन्यानि वेति, प्रश्नोऽत्रोत्तरं-समवसरणे पुष्पाणि वैक्रियाण्यौदारिकाणि च जलस्थलसमुद्भवानि भवन्ति इति समवायाङ्गमूत्रवृत्त्यादिभ्यो ज्ञेयमिति ॥ ३८ ॥ तथा-पञ्चविकृतिप्रत्याख्यानिनां द्विघटिकानन्तरं गुडमिश्रितचूरिमकं कल्पते नवेति ! प्रश्नोऽत्रोत्तरं-पञ्चविकृतिप्रत्याख्यानवतां द्विघटिकानन्तरं गुडमिश्रितरिमकं तद्दिने न कल्पते इति ॥ ३९ ॥ तथा-विकलेन्द्रियाश्युत्वा मनुष्यत्वं प्राप्य मोक्षं यान्ति नवेति ? प्रश्नोऽत्रोत्तरं-विकलेन्द्रियाः स्वभवतः च्युत्वा मनुष्यत्वं प्राप्य मोक्ष न यान्ति, सर्वविरतिं च प्राप्नुवन्तीति संग्रहणीवृत्त्यादावुक्तमस्तीति ॥ ४०॥ १ विचार्य सुधीभिर्देवेन्द्रस्तवादी सामानिकानां विमानपार्थक्योक्तेः ज्योतिष्कविमानाधिपतीनां सर्वेषां सस्यग्दृष्टित्वे तत्संख्याविरोधात् Jain Education intématiana For Private & Personel Use Only M ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy