SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पतिर्देवो मिथ्यादृष्टिरपि जिनप्रतिमाः पूजयतीति कलास्थितिरिति परे कल्पयन्ति, तथा तद्देवानुवृत्त्या परेऽपि तद्विमानवासिनो देवा मिथ्यादृशः किं न पूजयन्तीति परिकल्पयन्ति, सम्यग्दृष्टयस्तु इमा अर्हत्प्रतिमा मोक्षाय भविष्यन्तीति बुद्धया पूजयन्ति, ( एवं चेत् ) ' सव्वेसि देवाणं सब्वेसिं देवीण य अच्चणिज्ने ' इत्यादिका पाठरचना कृताऽभविष्यत्, परं सा न कृता, प्रत्युत । बहूणं देवाणं देवीण य अच्चणिज्ने ' इत्यादिका पाठरचना कृता, ततोऽवसीयते-य एव सम्यग्दृशो देवास्त एव जिनप्रतिमाः पूजयन्ति शकस्तवं च पठन्तीति सुधीभिः परिभावनीयं । यत्तु एवं खलु देवाणुप्पिआणं अंतेवासी तीसए णामं अणगारे छटुंछट्टेण जाव सकस्स देविंदस्स देवरणो | सामाणिआ देवा केमहिड्डिया' इति भगवत्या ३ शतके १ उद्देशके शकसामानिकानां निजनिजविमानेषत्पत्तिभणनात्तदाधिपत्यभणनाच्च सर्वे । सामानिकसरा विमानाधिपतयो भणिताः, तथाभणने च तदन्तर्गतः सङ्गमकामरोऽपि विमानाधिपतिरेव भणितोऽवसेयः, स चाभव्यत्वान्नियमात् मिन्थ्यादृष्टिरेवेति कथं सम्यग्दृश एव विमानाधिपतयः सर्वेऽपीति वक्तुं पार्यते इति विकल्पयन्ति, तदपि न सम्यग्, प्रवचनाभिप्रायस्य तैरनाकलन त् , न हि — सयसि विमाणंसि' इति पाठवलेन विमानाधिपतित्वं सामानिकानां सेत्स्यति, तथापाठस्य विमानाधिपतित्वं विनाऽप्यागमे उपलम्भात् , यतो ज्ञाताधर्मकथाङ्गे कालिदेव्याः कालावतंसकविमाने उत्पत्तिरभिहिता, सूरप्रभादेव्याः सूरप्रभे विमाने यावत्पद्मादेव्याः सौधर्मे कल्पे पद्मावतंसके विमाने तथा कृष्णादेव्या ईशाने कले कृष्णावतंसकविमाने उत्पत्तिर्भणिता, देवीनां चाग्रमहिषीणां न भवनानि न विमानानि प्रवचनेऽभिहितानि सन्ति, अपरिगृहीतदेवीनामेव विमानानां भणनात् । अयं च भावो-यथा देवीनां पृथग विमानानि न सन्ति, परं मूलविमान| सम्बन्धिविमानैकदेशः स्वोत्पत्तियोग्यः तद्विमानत्वेन भणितः, एवं सामानिकानामपि शकविमानसम्बन्धी तदेकदेशः तदीयप्रभुतादिना नियमितः । , इन्दुस्याधिपत्येऽप्येवंपाठः Jain Education nationa For Private & Personel Use Only स w .jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy