________________
सेनप्रश्ने. ३ उल्लासः ॥ ४८ ॥
Jain Education In
प्रवचने प्रतिपादनात्, न तु मिथ्यादृष्टिपरिगृहीतानामपीति, तथाचोक्तं- 'जा सम्मभाविआओ, पडिमा इयरा ण भावगामो उत्ति ' बृहत्कल्पनिर्युक्तौ तद्वृत्त्येकदेशो यथा याः सम्यग्दृष्टिपरिगृहीताः प्रतिमाः ता भावग्राम उच्यते, नेतरा - मिथ्यादृष्टिपरिगृहीता इत्यादि, किञ्च विमानाधिपतयो देवाः परैर्मिथ्यादृशोऽभिधीयन्ते, ते देवाः किं तीर्थकृतामाशातनां परिहरन्ति नवा ?, यदि परिहरन्तीत्युच्यते, तदा मिथ्यादृष्टित्वं तेषां दत्ताञ्जल्येव सम्पन्नं, ' आसायणवज्जणाओ सम्मत्त ' मिति वचनेन सम्यक्त्वस्यैवाभिधानात्, तत्राशातना परिहारोऽपि " अहो देवाण य सील, विसयविसमोहिआवि जिणभवणे | अच्छरसाईहिं समं, हासं कीलं च वज्जति ॥ १ ॥ इतिप्रवचनाभिहित एव, नापरः, तस्यागमेऽनुक्तेः, स च मिथ्यादृष्टित्वे सति स्वप्नेऽपि न सम्भवति, किन्तु नियमतः सम्यग्दृशा मेवात एव तथाशात नावर्जनस्वरूपशालिनां देवविशेषाणां वर्णवादोऽर्हतां वर्णवादवत्प्रेत्य सुलभबोधिताहेतुर्भणितः तथा च स्थानांगसूत्रम् -' पंचहि ठाणेहिं जीवा सुलभबोहिअत्ताए कम्मं पकरेंति, अरहंताणं वण्णं वयमाणे, जाव विविकतववंभराणं देवाणं वण्णं वयमाणे ' वृत्तिदेशो यथा-तत्र देवनां वर्णवादो यथा ' अहो देवाण य सीलं ' इत्यादि । यच्च कैश्चिदाशङ्कयतेमिथ्यादृशोऽपि स्थानकमाहात्म्यात्तथा तदाशातना वर्ज्जयिष्यन्तीति, तदपि परास्तमव सातव्यं, यतो मिथ्यादृशां दूरे वर्णवादस्य सुलभबोधिताहेतुत्वं प्रत्युत सम्यक्त्वदूषकत्वमेव तस्यागमेऽभिहितं यदुक्तम् " शङ्का १ काङ्क्षा २ विचिकित्सा ३ मिथ्यादृष्टिप्रशंसनम् ४ । तत्संस्तवश्च पञ्चापि १, सम्यक्त्वं दूषयन्त्यमी ॥ १ ॥ इति योगशास्त्रे । अथ तं न परिहरन्तीति द्वितीयपक्षः, स तूपेक्षणीय एव, आगमे सिद्धायतनेष्वाशातना परिहरणस्यैवाभिधानात् ‘बहूणं देवाणं देवणि य वंदणिज्जाओ अच्चणिज्जाओ,' इत्यादिना वन्दनपूजनादेराशातनापरिहार पूर्व्वकतयैव भावादिति । आस्तां सिद्धा यतनेषु यत्र सुधर्म्मासभासु स्वमाणवकचैत्यस्तम्भेषु श्रीमद द्दष्ट्रालंकृताः समुद्रकास्तिष्ठन्ति तत्रापि देवा नैव मैथुनादिप्रवृत्तिकरणादिनाऽऽशातनां कुर्व्वन्तीति । तस्मात्सिद्धं सुलभ बोधिताहेतुतीर्थ कृदाशातना परिहारान्यथानुपपत्त्या विमानाधिपतयः सम्यग्दृशो भवन्तीति । किञ्च - यदि विमानाधि
For Private & Personal Use Only
श्रीशुभवि० १-४९७
॥ ४८ ॥
linelibrary.org