SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सेवतिकानां पानीयखण्डाभ्यामेकदिनोनपूर्वोक्तत्रिंशदादिदिनेषु मोदका वध्यन्ते, ते मोदकाः पुनस्त्रिंशदादिदिनानि यावद्विहत्तै कल्पते नवेति ? प्रश्नोऽत्रोत्तरं-पानीयखण्डाभ्यां वर्णरसगन्धादिपरावर्तनात्पुनर्यथोक्तकालं यावत्ते मोदका मुनीनां विहर्तु कल्पन्त इति सम्भाव्यते, परमेतदर्थे विशेषा| क्षराणि दृष्टानि न स्मर्यन्त इति ॥ ३५ ॥ तथा-येन साधुना ये योगा न व्यूढास्तेन तद्योगानां प्रवेशोत्तारणं कार्यते नवेति ? प्रश्नोत्रोत्तरं -मुख्यवृत्त्या येन ये योगा व्यूढास्तेन तेषामेव प्रवेशोत्तारणादिकं विधीयते, तदभावे तु नन्द्यनुयोगद्वारयोगवाहिना सर्वेष्वव्यूढयोगेषु प्रवेशस्तेभ्यो निर्गमनं च कार्यते, तयोः क्रियायाः असम्बद्धत्वादिति परम्पराऽप्यस्ति, परं सर्वथैव तक्रिया कारिता न शुद्धयतीति ॥ ३६॥ तथा-चतुर्निकायेषु विमानाधिपतयः सम्यग्दृष्टयो मिथ्यादृष्टयो वेति ! प्रश्नोऽत्रोत्तरं-विमानाधिपतितया यो देवविशेष उत्पद्यते स | सम्यगदृष्टिरेव भवति, न कदापि स मिथ्यादृष्टिरित्यनादिकालीना जगद्व्यवस्थितिः, यतो विमानाधिपतितयोत्पद्यमानो देवः किं मे पुवं करणिज्ज ? किं मे पच्छा करणिज्ज ? किं मे पुव्वं सेयं ? किं मे पच्छा सेयं ? किं मे पुवंपि पच्छावि हियाए सुहाए खमाए निस्सेप्साए आणुगामिअत्ताए भविस्सइ ?' इत्यादिराजप्रश्नीयोक्तशुभाध्यवसायविशेषेण सम्यग्दृष्टिरेवावसीयते, सम्यक्त्वमन्तरेण तथाध्यवसायरूपपरिणामानुत्पत्तेः, न चायं | प्रकारो राजप्रश्नीयाद्युपाङ्गे सूर्याभदेवसम्बन्धित्वाच्चरितानुवादरूपोऽतः कथं सर्वेषामप्यन्यविमानाधिपतित्वेनोत्पद्यमानानां देवविशेषाणामयमेव प्रकार इति शङ्कनीयं, ग्रन्थान्तरे प्रकारान्तरस्यानभिधानाद् अन्येषामपि विमानाधिपतितयोत्पद्यमानानां तथाप्रकारस्य वक्तुमौचित्याद् , अत एव विजयदेवाधिकारे || तथाप्रकार एव विजयराजधान्यामुत्पन्नमात्रस्य विजयदेवस्यागमे भणित इति । किञ्च-विमानाधिपतिदेवानां मिथ्यादृष्टित्वेऽभ्युपगम्यमाने तद्विमानगतसिद्धायतनजिनप्रतिमानां मिथ्यादृष्टिभावितत्वेन भावग्रामताव्याघातः स्यात्, सम्यग्दृष्टिभावितानामेव-सम्यग्दृष्टिपरिगृहीतानामेवेत्यर्थः,तासां भावग्रामतया | Jain Educato national For Private & Personel Use Only W w.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy