________________
सेनप्रभे. ३ उल्लासः
॥ ४७ ॥
तथा - दशविधचक्रवालसामाचारीत्यत्र चक्रवालशब्देन किमुच्यत इति प्रश्नोऽत्रोत्तरं - चक्रवाले नित्यकर्मणि सामाचारी चक्रवालसामाचारी दशविधा - दशप्रकारा चासौ चक्रवालसामाचारी च दशविधचक्रवालसामाचारीति चक्रवालशब्दोऽवश्यकार्यवाचीति पञ्चवस्तुवृत्तौ तथा चक्रवाले चक्रवालविषया चक्रवत्प्रतिपदं भ्रमन्ती दशविधा सामाचारीत्यपि मवचनसारोद्धारवृत्तौ शततमद्वारे इति ॥ ३२ ॥
तथा— तीर्थकृतां जन्मादिकल्याणकेषु यथेन्द्रागमनं शास्त्रेषु स्पष्टतया दृश्यते न तथा च्यवनकल्याणके तत्कथमिति ? प्रश्नोऽत्रोत्तरंयथा चतुर्षु कल्याणकेषु सुरेन्द्रागमनं तथा च्यवनकल्याणकेऽपि सुरेन्द्रागमनं सुवर्णवृष्टिश्च दृश्यते । यदुक्तं - एत्थंतरंमि सव्वेवि, वासवा अवहिनाणभावेणं । चलिआसणा मुणेउं, जिणवरगन्भावयारमहं ॥ ५० ॥ सत्तट्ठपयाइ ऊट्टिऊण सक्कत्थएण तयाभिमुहं । घरणिअलमिलिअवरम उलिमंडला तत्थ वंदति ॥ ५१ ॥ पंचसु कलाणेसुं गंतव्वमवस्स जिणवरिंदाणं । तिअसाहिवेहिं इअ निच्छिऊण सव्वेवि संचलिआ ॥ ५२ ॥ अह सुपरस गिहें, इंदाएसेण घणवइप्पमुहा । मुञ्चन्ति जक्खनिअरा, मणिरयणमुवण्णदविणभरं ॥ ५०० ॥ बहुविहमणुन्न भोगंग संचयं तह पसत्यवत्याणि । विविहाभरणाणि अ किरणजालकलिआणि विकिरति " ॥ १०८ ॥ इति श्री सुपार्श्वचरित्रे, “ इदं हि घटते यस्मागर्भवासदिने मुदा । वन्दितोऽयं समागत्य सहैवाभ्यां सुरेश्वरैः " ॥ २७ ॥ इतिश्री शान्तिचरित्रेऽपीति ॥ ३३ ॥
तथा - स्वप्नपाठका इव चारणश्रमणादयः स्वप्नफलं कथयन्ति नवेति ? प्रश्नोऽत्रोत्तरं यथा स्वप्नपाठकाः स्वप्नफलं कथयन्ति तथा चारणश्रमणा अपि, यथा “ मज्झिमउवरिमगेविज्जगाओ तो चविअ नंदिसेणसुरो । अवयरिओ तगब्भे, तो सा चउद्दस नियइ सुमिणे ॥ ३५ ॥ एत्यंतरंमि नाणी, चारणसमणो समागओ तत्थ । विहिणा पुट्ठो रण्णा, सुमिणाण फलं कहइ एवं ॥ ८१ ॥ " इति ॥ ३४ ॥
तथा - शीतोष्णवर्षाकालेषु यथाक्रमं त्रिंशद्विंशतिपञ्चदशदिनानि यावदवगाहिमं साधूनां विहतु कल्पते, तथा यथोक्त कालमध्य निष्पन्न
Jain Education International
For Private & Personal Use Only
श्रीशुभवि० १-४९७
॥ ४७ ॥
Tainelibrary.org