SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Education सप्तक्षमाश्रमणदानविधानं न दृश्यते, तथापि श्री परमगुरूणामनुशिष्टिरस्ति, यतोऽग्रे मालापरिधानसमये तेषां समुद्देशानुज्ञयोर्विधीयमानत्वादुद्देशोऽपि कर्त्तव्य इति तत्सतक्षमाश्रमणानि देयानीति ॥ २८ ॥ तथा —— पणवीसजोअणे ' त्यादि गाथा कुत्रान्तर्वाच्येष्वरित, कथं च घटनेति ? प्रश्नोऽत्रोत्तरं इयं गाथा भूयः स्वन्तर्वाच्यपुस्तकेषु न दृश्यते, कल्पकिरणावलीवृत्तौ तु दृश्यते, गणनाघटना त्विन्द्रमात्रनिर्मापित कलशप्रमाणापेक्षया कर्त्तुं न शक्यते, परमिन्द्रसामानिकविमानेन्द्रप्रकीर्णकदेव कृतकारितैः सा सम्भवत्यपि, किञ्च 'तानेव बिभराञ्चकुः, कुम्भान् कुम्भान्तराम्बुभिः । आभियोगिकगीर्वाणाः कुर्वाणाः स्वामिशा - सनम् ॥ १३२ ॥ स्वामिस्नात्रे हरे रिक्तरिक्तान् कुम्भानपूरयन् । अमराश्चक्रिणो यक्षा, निधानकलशा इव ॥ १३६ ॥ खितरिक्ता भृतभृता, | रेजिरे सञ्चरिष्णवः । भूयो भूयः कलशास्तेऽरघट्टघटिका इव ॥ १३७ ॥ एवमच्युतनाथेन यथेष्टं कुम्भकोटिभिः । स्वामिनो विदधे स्नात्रं, चित्रमात्मा पवित्रितः ॥ ५३८ ॥ `" इति त्रिषष्टीय ऋषभचरित्रानुसारेण केचित्कलशाः स्नात्रोपयोगिनः परं स्थाप्याः केचित्कलशा आभरणार्थमेव तिष्ठन्तीति, तदपेक्षया वा सा गणना सज्जाघटीत्येतद्गाथायास्तथाविधस्थानाभावे सर्व्वे सर्व्ववद्यामिति ॥ २९ ॥ तथा - युगलिकशरीराणि सुराः समुद्रे क्षिपन्त्यथवा स्वयं विनश्वरीभवन्तीति प्रश्नोऽत्रोत्तरं - पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरम्बुधौ ॥ १ ॥ " इति त्रिषष्टीय ऋषभदेवचरित्रवचनात् समुद्रे युगलिकशरीराणि क्षिपन्त्यन्ययुगलिकक्षेत्रेऽप्येवं सम्भाव्यते, आरण्यकपशूनां निसर्गतो मृतानां यथा किमप्यवयवादिकं नोपलभ्यते तथा तेषामपीत्येषापि सम्भावना सञ्जायत इति ॥ ३० ॥ तथाऽन्तकृच्छन्दस्य कोऽर्थः इति प्रश्नोऽत्रोत्तरं ज्ञानावरणीयादिकर्मान्तकृत् सन् सिद्धिं गत इत्यर्थ इत्यावश्यकहारिभद्रीवृत्ती "अद्वैतकडा रामा " इति गाथा व्याख्याने ॥ ३१ ॥ ional For Private & Personal Use Only jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy