________________
सेनप्रश्ने. ३ उल्लासः
श्रीशभवि० १-४९७
.४६॥
तथा- बारसजोषण उसहे ' इत्येतद्गाथानुसारेण श्रीवृषभादितीर्थकृतां समवसरणमानमुत्सेधाङ्गुलनिप्पन्नयोजनैरुच्यतेऽन्यथा वेति | | प्रश्नोत्रोत्तरं- बारसजोषण उसहे ' इत्यनया गाथयोत्सेधाङ्गुलयोजनैर्वृषभादितर्थिकृतां समवसरणमानं मतान्तरेणोक्तं दृश्यते, परमस्या गाथायाः पारम्पर्य न ज्ञायते इति समवसरणावचूण्ाविति ॥ २६ ॥
तथा-श्रीआदिदेवस्य श्रेयांसेन बहुभिरिक्षुरसकुम्भैः पारणा कारितोतकेनैवेक्षुरसकुम्भेनेति साक्षरं प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-" मत्वेति प्रमदोत्पन्नरोमाञ्चः सोमभूपभूः । उत्पाट्येक्षुरसैः पूर्णान्, कुम्भानागाजिनान्तिकम्" ॥१॥ इति ऋषिमण्डलवृत्तौ ७ पत्रे "तावदावसथद्वारे, राजसूनो| रुपायने । केनचिच्चक्रिरे कुम्भा, नवेक्षुरससम्भृताः ॥ २६१ ॥ श्रेयांसो जातिस्मरणादिक्षादोषोज्झितं रसम् । मत्वा कल्प्यममुं स्वामिन् !, गृहा- | णेत्यभ्यधात्प्रभुम् ॥ २६२ ॥ प्रभुणाप्यञ्जलीकृत्य, पाणिपात्रे पुरो धृते । स रसं कलशश्रेण्याश्चिक्षेपेक्षुसमुद्भवम् ॥ २६२ ॥” इति श्री अम-IN रकविकृते पद्मानन्दकाव्ये त्रयोदशसर्गे “ अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा। नवेक्षुरससम्पूर्णा, ढौकयाञ्चक्रिरे घटाः ।। ९० ॥ ततो विज्ञातनिर्दोषभिक्षादानाविधिस्स तु । गृह्यतां कल्पनीयोऽयं, रस इत्यवदाद्विभुम् ॥ ९१ ॥ प्रभुरप्यञ्जलीकृत्य, पाणिपात्रमधारयत् । उत्क्षिप्योत्क्षिप्य | सोऽपीक्षुरसकुम्भानलोठयत् " ॥ ९२ ॥ इति श्री हेमचन्द्रसूरिकृतऋषभदेवचरित्रे, तथैवान्तर्वाच्ये च वसुदेवहिण्डौ प्रथमखण्डे च इत्यादि. | ग्रन्थाक्षरानुसारेण बहुभिरिक्षुरसघटैः पारणा जातेति । तथा-ताहे सयं चेव खोअस्स रसघडगं गहाय भावसुद्धेणं पडिगाहगसुद्धणं तिविहेणं तिकरण- | सुद्धेणं दाणेणं पडिलाभेस्सामित्ति इत्याद्यावश्यकचूर्ध्यावश्यकनियुक्तिहारिभद्रतवृत्तितद्वादशसहस्रीवृत्तिवर्द्धमानसारिकृतवृषभचरित्रकल्पकिरणावलीप्रभृतिग्रन्थानुसारेण त्वेकेनैवेक्षुरसघटेन पारणा कारितेति ज्ञायते । एतदाश्रित्य निर्णयस्तु सर्वविद्वेद्य इति ॥ ९३ ॥ ॥ २७ ॥
तथा-तृतीयाद्युपधानेषु सप्त क्षमाश्रमणानि दाप्यन्ते, तत् कुत्र विधिपत्रेऽस्तीति ! प्रश्नोत्रोत्तरं-तृतीयाद्युपधानेषु तद्विधिदर्शकपत्रादौ
Jain Education
For Private & Personel Use Only
lainelibrary.org