________________
चूर्णप्रक्षेपे धान्यादि प्रासुकीभवतीति किमत्र बाधकमिति ! प्रश्नोऽत्रोत्तरं - भूकटिककृताशङ्कामाश्रित्य यथा त्रिफलाप्रक्षेपाद के वर्णादिपरावत भवति तथा यदि धान्यफलादावपि भवेत्तदोदकवद्धान्यादिकं प्रासुकं भवति, न च तथा तस्मात्कथं प्रसुकं तदिति ॥ २१ ॥
तथैर्यापथिकी द्रव्यतः क्षेत्रतः कालतो भावतश्च कथमायातीति प्रश्नोऽत्रोत्तरं - - द्रव्यतः सचित्तादिस्पर्शे क्षेत्रतः शतहस्ताद्वहिर्गमने ऐर्यापथिक्यायातीत्यक्षराण्यावश्यक जीतकल्पसूत्रवृत्त्यादौ सन्ति, कालतो भावतश्चैर्यापथिकीसमागमने व्यक्त्याक्षराणि शास्त्रे नोपलभ्यन्त इति ॥ २२ ॥
तथाssवश्यक योग सम्बद्ध दशवेकालिक योगोद्वहनं शुद्धयति नवेति ? प्रश्नोऽत्रोत्तरं आवश्यक योगालोचनां विधाय पश्चात्तत्सम्बद्ध दशवैकालिकयोगप्रवेशः शुद्ध्यतीति ॥ २३ ॥
तथा— श्रुतस्कन्धादिसमुद्देशानुज्ञादौ यदा समुद्देशदिन वृद्धिजीता तदा तद्दिनं कारयित्वाऽयेतनदिनेऽनुज्ञानन्दिः क्रियते ? किंवा सम्बद्धतयाऽनुज्ञानन्दि विधाय तृतीयदिने तद्दिनवृद्धिः कार्यत इति, प्रश्नोऽत्रोत्तरं - समुद्देशक्रियाशुद्धौ तद्दिनवृद्धौ च सम्बद्धतयाऽनुज्ञानन्दि विधाय पश्चाद्दिन वृद्धिः कार्यते चेत् समुद्देशक्रियासम्बन्धिनी दिनवृद्धिर्जायते तदा तृतीयदिनेऽनुज्ञानन्दिः क्रियत इति ॥ २४ ॥
तथा—-विक्रयकारिसमुच्छेदितनामलान्छनानां प्रतिष्ठिता ईत्यतिमानां पुनर्लक्ष्मादिकरणं शुद्ध्यति नवेति प्रश्नोऽत्रोत्तरं तासामभिधानलक्ष्मादिकरणं प्रायो न शुध्यति कदाचित्कारणे ययावश्यकं कर्त्तव्यं स्यात् तदा तद्विधानानन्तरं प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति श्रीभगवत्पादानामनुशिष्टिरिति ॥ २५ ॥
Jain Educational
For Private & Personal Use Only
www.jainelibrary.org