________________
POS
सेनप्रश्ने ३ उल्लासः
श्रीशुभवि १-४९७
॥४४॥
तथा श्रावकाणामुपधानवहनं विना नमस्कारादिपठनं शुध्यति नवेति ? प्रश्नोऽत्रोत्तरं--यथा यतीनां योगवहनं विना सिद्धान्तवाचनपाठनादि न शुद्धयति, तथोपधानतपोऽन्तरा श्राद्धानामपि नमस्कारादिसूत्रमणनगणनादि न शुद्धयति, यदुक्तं महानिशीथे-' से भय ! सुटुकर पंचमंगलमहासुअखंधस्स विणओवहाणं पन्नत्तं, एसा निअंतणा कह वालेहिं किज्जई ! गो० ! जे णं केणइ न इच्छज्जा एवं नियंतणं अविणओवहाणेणं पंचमंगलसुअनाणमहिज्जइ अझावेइ वा अज्झावयमाणस्स वा अणुन्नं पयाइ से णं न भवेज्जा पिअधम्मे न हज्जा दढधम्मे न हवेज्जा भत्तिज्जए, हीलिज्जा सुत्त हीलिज्जा अत्थं हीलिजा सुत्तत्थोभए हीलिज्जा गुरुं, जे णं हीलिज्जा सुत्तं जाव हीलिज्जा गुरुं से णं आसाएजा अतीताणागयवट्टमाणे तित्थयरे आसाएज्जा आयरिअउवज्झायसाहुणो, जे णं आसाएज्जा सुअनाणमरिहंतसिद्धसाहू, तस्स णं अणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संवुडविअडासु चुलसीइलक्खपरिसंकडासु सीओसिणमिस्सजोणिसु सूइरं निअंतणा इति,' परं येन प्राग नमस्कारादिसूत्राण्यधीतानि, तेनापि यथायोगं निर्विलम्बमेवोपधानानि विधिनाऽवश्यं वहनीयानि । सम्प्रति तु द्रव्यक्षेत्रकालाद्यपेक्षया लाभालाभं विभाव्याचरणयोपधानतपो विनाऽपि नमस्कारदिसूत्रपाठादिभणनं कार्यमाणं दृश्यते, आचरणायाश्च लक्षणमिदं कल्पभाप्ये उपदेशपदे च यथा-" असढेण समाइन्न, जं कत्थइ केणई असावज्ज । न निवारिअमन्नहि, बहुमणुमयमेअमायरिअं" ॥१॥ आचरणा च जिनाज्ञासमानैव, यद्भणितं भाप्यादौ" असढाइन्नऽणवज्जं, गीअत्थअवारिअंति मज्झत्था । आयरणाविहु आणत्ति, वयणओ सुबहुमन्नंति" ॥१॥ इति ध्येयम् ॥९॥
तथा-श्रीवीरतीर्थ कियत्कालं यावत् भवतीति ? प्रश्नोत्रोत्तरं-'जंबुद्दीवे २ भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पिआणं केवतिअंकालं तित्थं अणुसज्जिस्सइ ?' इति भगवतीसूत्रविंशतितमशतकाष्टमोद्देशकानुसारेणैकविंशतिसहस्रवर्षाणि यावत् श्रीवीरतीर्थ प्रवर्तिप्यते, किञ्च 'तित्थं भंते ! |तित्थं ? तित्थयरे तित्थं ! गो० अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णाइण्णे समणसंघो, तंजहा-समणा समणीओ सावगा साविआओ
॥४४॥
For Private
Personel Use Only
www.jainelibrary.org