SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Jain Educati अत्ति ' भगवत्यां,“ दुप्पसर्हतं चरणं, भणिअं जं भगवया इहं खेत्ते । आणाजुत्तेणमिणं, ण होइ अहुणत्ति वामोहो " ॥ १ ॥ इत्युपदेशपदवचनाद् दुष्प्रसहान्तं यावच्चारित्रं भविष्यतीति ॥ १० ॥ तथा - नारकाः पूर्व्वभवकृतदुष्कृतं जातिस्मरणेन जानन्त्यवधिज्ञानेन वेति ? प्रश्नोऽत्रोत्तरं नारका नानाविधानि पापानि कृत्वा नरके व्रजन्ति, तत्रैतानि तैः स्मारितपूर्व्वभवदुष्कृतानि भवप्रत्ययजातिस्मरणेन नारकाः स्वयमपि जानन्ति, अवधिना तु न किञ्चिदवगच्छन्ति, तस्योत्कृष्टोऽपि तेषां योजनप्रमाणत्वादिति भवभावनासूत्रवृत्तौ, एतदनुसारेण नारकाः पूर्वभवकृतदुष्कृतं भवप्रत्ययिकजातिस्मरणेन जानन्तीति ॥ ११ ॥ तथा — मुण्डकेवली किंलक्षणो भवतीति प्रश्नोऽत्रोत्तरं - “ संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थं संप्रवृत्तोऽसौ, सदा स्यान्मुण्डकेवली ” ॥ १ ॥ इति पञ्चद्दवृत्तौ तदनुसारेण यः पुनः सम्यक्त्वावाप्तौ भवनैर्गुण्यदर्शनतस्तन्निर्वेदादात्मनिस्सरणमेव केवलमभिवाञ्छति, तथैव ेष्टते, समुण्डकवली भवतीति ॥ १२ ॥ तथा - यस्मिन् काले कालान्तरे वा यावन्तो युगलिनस्तस्मिन् तावन्त एव न्यूनाधिका वेति ? प्रश्नोऽत्रोत्तरं यस्मिन् काले यावन्तो युगलिनस्तस्मिन् काले तु तावन्त एव भवन्तीति, कालान्तरे च भरतैरावतयो युग्मिनां न्यूनाधिकत्वं, देवकुर्व्वादिषु तु जातु तत्संहरणसम्भवेऽपि कुतश्चितदानयनमपि भवतीति न तत्र न्यूनाधिक्यमिति ॥ १३ ॥ तथा -- कश्चित् सचित्तपरिहारी कारणे यदि रात्रौ जलं पिबति तदोष्णमप्रासुकं वेति ? प्रश्नोऽत्रोत्तरं यदि सचित्तपरिहारी कारणे जलं पिवति तदोष्णमेवेति ॥ १४ ॥ ational For Private & Personal Use Only w.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy