SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्चतुष्पद्य इति योगशास्त्रवृत्तौ चतुष्पा चतुर्थाधे'तत्श्लोकव्याख्याने, तथा प्रवचसारोद्धारवृत्तौ चतुष्पवीं अष्टमीचतुर्दश्यमावस्यापूर्णिणमालक्षणा उक्ताः, तथा पर्वाणि चैवमूचुः-'अट्टमी चाउद्दसि पुण्णिमा य तह अमावसा हवइ प० । मासंमि पव्वछकं, तिन्नि अ पब्वाई पक्खंमि ॥१॥ बीआ पंचमी अटूमि, इगारसी चउदसी पण तिहीओ । एआओ सुहतिहीओ, गोअमगणहारिणा भणिआ ॥२॥ बीआ दुविहे धम्मे पंचमि नाणेसु अट्ठमी कम्मे । एगारसी अंगाणं, चउद्दसी चउद्पुब्वाणं ॥३॥' एवं पञ्चपर्वी पूर्णिमामावास्याभ्यां षट्पनी च प्रतिपक्षमुत्कृष्टतः स्यादिति श्राद्धविधौ प्रतिक्रमणमूत्रवृत्तौ च । तथा श्रीभगवतीवृत्तौ चउद्दसटुमुद्दिपुण्णमासिणीसु' इत्यत्रोद्दिष्टा-अमावास्था प्रोक्ताऽस्ति, विपाकवृत्तावपि तथैव, किंच • संते बले वीरिअपरिसक्कारपरकमे अटूमीचउद्दसीनाणपंचमीपज्जोसवणाचाउम्मासिएमु चउत्थछट्टमे न करिना पच्छित्त ' मित्येकोनविंशपश्चाशकवृत्त्यादिप्वनेकग्रन्थेषु पञ्चमी भणितास्ति, पञ्चम्याः पर्वत्वं महानिशीथेऽप्युक्तमस्ति, नन्वेवं सति त्रिपा चतुष्पर्वी पञ्चपर्वी षट्पनी वा तपःशीलादिनाऽऽराधनीयोच्यते, स्वशक्त्यपेक्षं सोमेकां वा तामाराधयतां न कश्चिद्दोपः, तथा- छण्हं तिहीण मज्झमि, का तिही अज्जवासरे ? ' इत्यादिगाथा श्राद्धदिनकृत्यसूत्रेऽस्ति तद्व्याख्यानं च-८ १४ १५ एताः सितेतरभेदात्पतिथय इति इत्यादिग्रन्थानुपारेणाविच्छिन्नपरम्परया च सर्वा अपि अमावास्यापूर्णिमादितिथयः पर्वत्वेनाराध्या एवेति, अथ च- ' चाउद्दसटमुद्दिट्ठपुण्णमासिणीसु पडिपुण्ण'मित्यस्य व्याख्या-चतुर्दश्यष्टम्यो प्रतीते, उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु, पौर्णमासीषु तिसृषु | चतुर्मासकसम्बन्धिनीप्पिति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धसूत्रवृत्तौ लेपश्रावकाधिकारे इत्येतत्परािधनं चरितानुवादरूपं, शतवारं पञ्चमश्राद्धप्रतिमावाहक कार्तिकश्रेष्ठिकवन्नतु विधिवादरूपं, तल्लक्षणं पुनरेकेन केनचिद्यक्रियानुष्ठानमाचरितं स चरितानुवादः, सर्वैरपि यत्क्रियानुष्ठानं कियते स विधिवादस्तु | सर्वैरपि स्वीकर्त्तव्य एव, न तु चरितानुवाद इति ॥ ८ ॥ Jain Educat M For Private & Personel Use Only Jaw.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy