________________
सेनप्रश्न. २ उल्लासः
॥ ४२ ॥
Jain Educatio
लक्षणानुसारेण बादरनिगोदादौ सिद्धेभ्योऽनन्तानन्तगुणास्तस्मान्न ज्ञायन्ते सिद्धेभ्यो व्यवहारिजीवा अधिका वा तुल्या वेति सम्यक् प्रसाद्यमिति ? प्रश्नोऽत्रोत्तरं - सिद्धा निगोदस्यानन्ततमे भागे उक्ताः, निगोदाश्च द्विधा- सूक्ष्मा बादराश्य, यावन्तः सिध्यन्ति तावन्तः सूक्ष्म निगोदेभ्यो व्यवहारराशौ समायान्ति, तथा च कथं सिद्धजीवानां व्यवहारराशिजीवानां च तुल्यता, सिज्झति जत्तिये ' त्यादिगाथार्थोऽपि व्यवहारराशेस्तत्तग्रन्थानुसारेणानादितया प्रतिभासात्तदनुरोधेनैव भावनीय इति ॥ २१० ॥
तथैकजीव उत्कर्षतस्संसारे कतिश इन्द्रत्वचक्रित्वादि प्राप्नोति, तत्प्राप्तिप्रतिपादकशास्त्रं च किमिति प्रश्नोऽत्रोत्तरं तत्राप्तिसङ्ख्यानियमः शास्त्रे न दृश्यते, द्विशस्तत्प्रात्यक्षराणि तु साक्षादेव श्रीभगवतीप्रमुख ग्रन्थेषु दृश्यन्ते परं प्रायेण बहुशस्तत्प्राप्तिर्न स्यादिति | सम्भाव्यते ॥ २१९ ॥
तथा - ब्रह्मलोकादुपरि किं सम्यग्दृशो देवा अधिका उत मिथ्यादृशोऽधिका इति प्रश्नोऽत्रोत्तरं पञ्चमदेवलोकात् परतो युक्त्या विचामाणे मिथ्यादृष्टिभ्यरसम्यग्दृष्टयो देवा अधिकारसम्भाव्यन्त इति ॥ २१२ ॥
तथा -- श्राद्धविधिवृत्तौ प्रतिमायाः सृष्टया नवाङ्गतिलककरणमुक्तं तत्र प्रथमं किं वामपादे तत्कर्त्तव्यमथवा दक्षिणपादे इति प्रश्नोत्रोत्तरं - जिनप्रतिमायाः पूजाकरणावसरे नवाङ्गेषु तिलकानि दक्षिणचरणादारभ्याङ्गसृष्ट्या विधेयानीति ॥ २९३ ॥
इति सकलरिपुरन्दरपरमगुरुगच्छाधिराजभट्टारक श्रीविजय सेन सुरिप्रसादी कृतमश्नोत्तर सङ्ग्रहे भट्टारक श्रीश्रीहीर विजयसुरिशिष्यपण्डितशुभ विजय गणिविरचिते द्वितीयोल्लासः ॥
For Private & Personal Use Only
पं. विवेक० पं. रामवि० २०८-२१३
॥ ४२ ॥
jainelibrary.org