________________
IN परिणयति तदाऽहं मुश्चाम्येना, नो चेज्जीवन्तीं न मुञ्चामि । ततो राज्ञा विचारितम्-यद्यनेनापि परिणीता जीवती |
तदा वरम् । ततो राज्ञा वने गत्वा तस्मै मलाविलशरीराय दत्ता पुत्री । राजा पश्चाद्गतः । रात्रौ विविधैः का प्रकारैस्तां विडम्ब्य यक्षेणोक्तं गच्छ खेच्छं, यत्त्वया मुनिरवहीलितस्तत्फलं मया प्रापिता त्वम् , अतः परं यदि || | मुनेरवहीलनां कुरुषे तदा मृतिं गमिष्यसि । ऋषिपार्श्वे तां कन्यां पादौ घट्टयन्ती स्वशिरसा खं निन्दन्तीं वीक्ष्य || यक्षविमुक्तोऽसमञ्जसं मत्वाऽवग्-भो कन्ये ! अत्र किमागताऽसि मत्पार्श्वे ?, अहं तु यतिः, मया सर्व स्त्रीसङ्गादि |
तृणवत् त्यक्तं, वयं तु सिद्धिवधूसम्बन्धकाङ्गिणः, न भवत्तुल्यां दुर्गन्धाऽमध्यभस्त्रिकां वाञ्छामः। कन्या जगौ- मया त्वं वरितोऽसि । अहं त्वया बलादङ्गीकृता । अधुना किमुच्यते त्वया कूटं ?, त्वं तूत्तमः करुणासागरः ।।
एवं यदि त्वया करिष्यते तदा मम का गतिर्भविष्यति ? । यतिर्जगौ-त्वं केनापि वाहिता, अथवा वातूला जाता। स्त्रिया सह भोगः पश्चात्तिष्ठतु, वार्तामपि स्त्रिया त(त्व)या सहाहं न कुर्वे । यस्या दोषाः सहस्रशो विद्यन्ते ।
यतः-"आवर्तः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् ॥ भरते. ३८ अग्राह्यं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्डं, स्त्रीयत्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम् ? ॥ १ ॥
AAP
Jain Educat
i
onal
For Private Personel Use Only
V
Mjainelibrary.org
Fol