SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २२२ ॥ Jain Educatio हरिकेशबलो दीक्षां जग्राह । स तपस्तपन् कृशतनुः साधुक्रियातत्परो हरिकेशबलो वाराणसीं ययौ । तत्र तिन्दुकोद्याने स तिष्ठन्नुयं तपः करोति स्म । तपसा कर्षितं तं निर्ग्रन्थं तिन्दुकयक्षः सेवते दिवानिशम् । | अन्यदा मित्रेण यक्षेणाभ्येत्य प्रोक्तं- किमधुना मित्र ! न दृश्यसे अस्य मुनेः सेवा क्रियते स्म मया । ममारामे सन्त्येते तपोधनाः । ततस्तेनेत्युक्ते निश्चिकीर्यक्षेण सह सख्या ग्रन्थितिन्दुकयक्षस्तत्रागात् । विकथासंसक्तांस्तापसान् दृष्ट्वा द्वावपि तौ भक्तावभूतां हरिकेशबले मुनौ । अन्यदा तत्र वने कौशलराज्ञो वाराणसीशितुः पुत्री भद्राहा क्रीडां कर्तुमगात् । यक्षायतने यक्षमर्चितुं च तं कुरूपं कुत्सितवस्त्रपरिधानं मुनिं वीक्ष्य राजपुत्री भद्रा | निष्ठीवननक्रमोटननेत्रकूणितादिकुर्वती यक्षायतनाद्वहिर्जुगुप्सामिति चकार, मलमूत्रपर्वतोऽयमदर्शनीयोऽयम् । यक्षेण कुपितेन महर्षि कुत्सयाधिष्ठिता भद्रा वैकल्यादसमंजसं ब्रूते । ततस्तां ग्रथिलीभूतां राजा खगृहे नीत्वा वैद्यैमंत्रतत्रादिभिश्चिकित्सांकारयामास । या या मन्त्रादिकाः क्रियाः कार्यन्ते तास्ता निष्फला अभूवनूषरक्षेत्रारो पितबीजानीव । वैद्या निर्विद्यास्त्राश्च, समत्रा मत्रिकास्तथा । यदाऽभूवंस्तदा पात्रेऽवतीर्योवाच गुह्यकः ॥ १ ॥ महात्माऽयं तपोराशिर्ययाऽतिमत्तचित्तया । स साधुर्गर्हितोऽत्यन्तं, साऽधुना मुच्यते कथम् ॥ २ ॥ यदीयमेनमेव यतिं tional For Private & Personal Use Only श्री हरिकेश - कथा | ॥ २२२ ॥ w.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy