________________
कथा।
॥२२३॥
॥ श्रीभरते. अनृतं साहसं माया, मूर्खत्वमतिलोभता। निःस्नेहो निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः॥२॥ एवंविधां स्त्रियं श्रीहरिकेशश्वरवृत्तिः॥
IN कोऽङ्गीकुरुते ? । ततः सा विलक्षा मन्दाक्षी प्राप्ता पितृमन्दिरे सर्व वृत्तान्तं पितुः पुरः प्राह । ततो राज्ञा सर्व
सामन्तमत्रिपुरोहितादीनां पुरः प्रोक्तं-इयं पुत्री साधुसेवापरेण केनापि यक्षेणैवं विडम्बिता मायया । स साधु-IN स्त्वेनां मनसाऽपि नेच्छति, तेन कस्मै दास्यते । सामन्ताद्यैरुक्तम्-इयं तु ऋषिपत्नी जाता, तेन कस्मैचिद्विप्राय दीयते । ततो रुद्रदेवाय द्विजाय दत्ता सा धनदानपुरस्सरं नृपेण । रुद्रदेवोऽपि तया राजकन्यया स्वर्ग || करस्थितं मेने । रुद्रदेवारब्धयज्ञेऽन्यदा स साधुः स्त्रीसङ्गार्जितपापापसारणसमर्थगृहीतप्रायश्चित्तो हरिकेशबलो || |मासक्षपणपारणे शुद्धाहारगवेषणपरः समागात् । यज्ञमध्ये तं प्रविशन्तं वीक्ष्य द्विजाः स्वजातिमदोद्धता जगुः-रे दुराचारिन् ! रे पापिन् ! रे मुनिचाण्डाल ! अस्माकं यज्ञाऽमत्राणि विट्टालयितुं किं प्रविष्टः ?, तदा कलकल-II व्याकुलः सर्वद्विजलोकोऽभवत् । तदा तत्रागतया ऋषिपत्न्योक्तं-भो द्विजाः ! येनाहं पितृदत्तापि निःसङ्गत्वा- ॥ २२३ ॥ न्मुक्ता, न तु मुक्ता, स साधुभविष्यति तदा सर्वान् द्विजान् हनिष्यति । यूयं सर्वेऽपि द्विजास्तस्य पादयोः । पतित्वा क्षामयन्तु, नो चेन्मरणं वो भविष्यति । ततस्तेन ऋषिपत्नीवचसा घृतसिक्तवह्निवत् क्रोधेन ज्वलन्तो ||
Jain Education Latona
For Private Personel Use Only
B
r
ainelibrary.org