SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Jain Educat | जगुः - रे रण्डे ! दूरं याहि । अस्माकं यागोऽनेन विट्टालितः, तेनामुं हनिष्यामो वयं, त्वं दूरे तिष्ठ, नो चेत्त्वां हनिष्याम इत्युक्त्वा द्विजास्तं हन्तुं लग्नाः, तदा यतिदेहमधिष्ठाय यक्षः प्राह - भो मह्यं भिक्षां ददध्वं नो चेन्मृता एव । भवद्भिर्दुराचारैर्यज्ञच्छलात्स्वोदरपूरणाय जीवा हन्यन्ते । हिंसानृतस्तेयपरिग्रहनिवृत्तधीः ब्रह्मचारिसमस्तस्मान् मम धर्माय दीयताम् । द्विजा जगुः - एतत्सर्वमन्नं जातिमतामुत्तमानां द्विजानामेव कृते उपस्कृतमस्ति, न | शूद्राय दातुम् । तेन चात्र वृथान्नगृहणेच्छाऽस्ति – मुनिराह न युष्माकं, हिंसाद्याश्रवसेविनाम् । अब्रह्मचारिणां | सूत्रकण्ठानां ब्राह्मणस्थितिः ॥ १ ॥ यतः - अग्नौ हुतं भवेद्भस्म, न भस्मापि द्विजेहुतम् । न्यायेनानेन वः सर्वं स्याद्भस्मनिहुतं हुतम् ॥ २ ॥ जन्मतो नान्तरं किञ्चित्, ब्राह्मणस्यान्त्यजस्य च । कर्मणा ब्राह्मणत्वं चेत्, जितं तर्हि तपोधनैः ॥ ३ ॥ कर्मभिर्दिवि सम्पत्तिः कर्मभिर्नरके विपत् । जात्याद्याः कोपयुज्यन्ते ?, सद्गतौ ते हि पङ्गवः ॥ ४ ॥ सत्कर्मनिरतः शुद्रस्त्रैलोकस्यैति पूज्यताम् । असत्कर्मा द्विजन्मापि, निन्द्यानामेति निन्द्यताम् ॥ ५ ॥ मृतेषु तर्पणं श्राद्धं, यन्मूढैरुपकल्प्यते । उच्छिद्य भस्मतां नीते, तत्तरौ सेचनोपमम् ॥ ६ ॥ भस्मीभूतस्य भूतस्य तृप्तिः श्राद्धाद्यथा भवेत् । कलत्रा (शा) त् पुत्रजन्मापि, तहदेव न तस्य किम् ! ॥ ७ ॥ तदेवं national For Private & Personal Use Only www.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy