SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २२४ ॥ Jain Education सर्वमप्येतत्, द्विजानां तुषखण्डनम् । आकाशचर्वणप्रायमत्रतं चानुगच्छति ॥ ८ ॥ मेध्यमेवेत्थं ब्राह्मण्यं, यज्ञं स्नानं च बालिशाः । धिग् वो मूर्खान् मुधा वेदभारोद्वहनरासभान् ॥ ९ ॥ तन्निशम्याथ साक्रोशमुद्गीर्णलगुडादयः । तं हन्तुं हन्त धावन्तो, गुह्यकेन हता द्विजाः ॥ १० ॥ वमन्तः शोणितं वत्रैर्निश्रेष्ठाः पतिताः क्षितौ । भट्टाश्रकुस्तदाक्रन्दं, कोलाहलपुरस्सरम् ॥ ११ ॥ अथ प्रसादयामासु - र्विलक्षास्ते द्विजातयः । क्षम्य - तामपराधोऽयं, साधोऽवहीलनात्मकः ॥ १२ ॥ यतिः प्रोवाच चित्तेन मनसा वचसाऽपि च । प्रद्वेषो नास्ति मे कश्चित्, किन्तु यक्षेण ते हताः ॥ १३ ॥ परं भवतां यागस्त्याज्य एव, नरकहेतुत्वात् । यतः - " अस्थि वसति रुद्रश्व, मांसे वसति जनार्दनः । शुक्रे वसति ब्रह्मा च तस्मान्मांसं न भक्षयेत् ॥ १ ॥ तिलसर्षपमात्रं तु, यो मांसं भक्षयेन्नरः । स निर्वर्तेत नरकं यावच्चन्द्रदिवाकरौ ॥ २ ॥ व्रतिनो ब्राह्मणा ज्ञेयाः, क्षत्रियाः शस्त्रपाणयः । कृषिकर्मकरा वैश्याः शूद्राः प्रेषणकारकाः ॥ ३ ॥ त्यक्त्वा कुटुम्बवासन्तु निर्ममो निष्परिग्रहः । युक्तश्चरति निःसङ्गः, पञ्चब्राह्मणलक्षणैः ॥ ४ ॥ अस्तंगते दिवानाथे, आपो रुधिरमुच्यते । अन्नं मांससमं प्रोक्तं, | मार्कण्डेन महर्षिणा ॥ ५ ॥ अधीत्य चतुरो वेदान्, साङ्गोपाङ्गान् सलक्षणान् । शुद्रात् प्रतिग्रहं कृत्वा, खरो For Private & Personal Use Only श्रीहरिकेश कथा । ॥ २२४ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy