________________
Jain Educat
| भवति ब्राह्मणः ॥ ६ ॥ खरो द्वादश जन्मानि षष्टिजन्मानि शुकरः । श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ ७ ॥ मुण्डनाच्छ्रमणो नैव, संस्काराद् ब्राह्मणो न च । मुनिर्नारण्यवासेन, वल्कलेन न तापसः ॥ ८ ॥ ये त्यक्त्वा धनधान्यादिपुत्रपौत्रपरिग्रहम् । चरन्ति पथि निष्पापे, ते प्रोक्ता ब्राह्मणा जनाः ॥ ९ ॥” व्योमस्थयक्षोऽदृश्यः सन् प्राह-भो द्विजा ! यदि खात्मनो हितं वाञ्छथ तदा अनेनोक्तं धर्ममार्गं प्रपद्यध्वं यूयं, नो चेत् सर्वान् हनिष्यामि । ततः सर्वे द्विजा उत्थाय तस्यर्षेः पादयोः पतित्वा जल्पन्ति स्म - अद्यप्रभृति वयं तव सेवकाः स्मः । रुद्रदेवप्रभृतिभिर्विप्रैस्तं गुरुं कृत्वा क्षमयित्वा च प्रोक्तम् - को धर्मो मुक्तिदः ? । (मुनिराह-यज्ञः) | रुद्रदेवोऽवग् - यज्ञस्वरूपं कथय । ततो मुनिराचष्ट - जीवो वेदी तपोज्योतिर्योगाः स्रुगरणिर्वपुः । कर्माणि समिधो होमः, शान्त्यै संयमसाधनः ॥१॥ हृदः क्षान्त्यादिभिर्धर्मो, ब्रह्मतीर्थमनाविलम् | मलो रागादिकं स्नानं, लेश्याशुद्धि| रिवात्मनः ॥ २ ॥ होमेनानेन ये शान्ताः, स्नानेनानेन निर्मलाः । भवन्ति योग्यास्ते सिद्धिवधूसम्बन्धसम्पदः ॥ ३ ॥ ततस्तैर्विप्रैः शुद्धाहारेण स मुनिः प्रतिलम्भितः । ततो यक्षः प्रादुर्भूय जगौ - अयं यतिर्वन्दितः प्रतिलाभितो मुक्तये भवति । अद्यप्रभृति भवद्भिर्यागः करिष्यते तदा हता एव, यत्युक्तं धर्मं गृह्णीत । ततस्ते जैनं
mational
For Private & Personal Use Only
www.jainelibrary.org