________________
यदहं त्वया सभायां निराकृतस्तत्फलं विलोकयाधुना। तत एकः क्षुल्लकः घाणके क्षेप्तुमानीतस्तदाऽऽचार्येण पर्यकन्ताराधना तथा कारिता यथा पील्यमानस्य तस्य यतेः केवलज्ञानमुत्पन्नम् , एवं चतुःशतेषु नवनवत्यधिकेषु ।
यतिषु पील्यमानेषु प्राप्तकेवलज्ञानेषु मुक्तिं गतेषु स्कन्दकाचार्योऽवक्-प्रथमं मां घाणके प्रक्षिप पश्चादयं क्षुल्लकः।
क्षेप्यः । यतो ममास्मिन् महामोहोऽस्ति । ततो हठात्तेन पालकेन स एव यतिः घाणके प्रक्षिप्तः। आचार्येण । | तथा निर्यामितो यथा मुक्तिं ययौ क्षणात् । ततश्चाचार्यः समुत्पन्नकोपो घाणके क्षिप्यमान एवंविधं निदानमकरोत्
अहं राज्ञोऽस्य सर्वप्रकारेण वधकरो भूयासम् । ततस्तेन हतो मृत्वा च स्कन्दकाचार्यो वह्निकुमारेषूत्पन्नः । तदा स्कन्दाकाचार्यरजोहरणं शकुनिका नीत्वाऽऽकाशे चचाल। अकस्मात् तस्या आस्यात् रजोहरणं पुरन्दरयशसः सौधाग्रे पपात । पुरन्दरयशास्तु स्वभ्रातृरजोहरणं रुधिराकीर्ण वीक्ष्य हृदयं ताडयन्ती भृशं रोदयन्ती परान् । जनानपि पतिं प्रत्यवग्-हा पते! किं कृतं ? रजोहरणं महन्धोर्विद्यते। केनापि पापिना मे बन्धुर्हतो भावी । तव । संकेतं विना कोऽपि तं हन्तुं न शक्नोति । एवं रुदन्तीं पुरन्दरयशसं वीक्ष्यान्येऽपि लोका रुरुदुः। पुरन्दरयशा आत्मानं निहन्तुं पुनः पुनः खं शिरो भूमौ स्फोटयामास । अत्रान्तरे स्कन्दकाग्निकुमारदेवोऽवधिना खशिष्यान्
Jain Educatio
n
al
For Private
Personel Use Only
Thainelibrary.org