SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Jain Educat यशाः प्राप्तयौवना दण्डकारण्यदेशपतेः कुम्भकारस्य पित्रा दत्ता । स्कन्दकपुत्रो धर्मकर्मशास्त्राणि पाठितः । अन्यदा पालको मन्त्री दण्डकभूपतेः श्रावस्त्यामाययौ आत्मकार्यार्थं, जितशत्रुमहीपतेः समीपे प्रतीहारनिवेदितः समाययौ । तदा राजा तत्त्वज्ञो धर्मवार्तां कुर्वन् समं मत्रिभिरभूत् । पालकेनोक्तं - धर्म एव नास्ति, पापमेव नास्ति, | जगन्मध्ये किमपि नास्ति । स्कन्दककुमारोऽवग्-त्वमसि न वा ? यद्यसि तदा कथमेवं प्रोच्यते ? । इत्यादियुक्तिभि| र्निरुत्तरीकृतः स्कन्दकेन पालको हसितोऽशेषसभाजनैश्च । ततः पालको विलक्षः स्वपुरं ययौ । इतः श्रावस्त्यां पुरि सुत्रतः खामी विहरन् भुवि समवासार्षीत् । राजा स्कन्दकेन समं धर्मं श्रोतुं ययौ । ततः परमेश्वरः प्राह - " संसारंमि असारे, नत्थि सुहं वाहिवेयणापउरे । जाणतो इत्र जीवो, न कुणइ जिणदेसियं धम्मं ॥ १ ॥ संझन्भरागजलबुब्बुओवमे, जीविए य जलबिंदुचंचले । जुव्वणेनइवेगसंनिभे, पावजीव ! किमयं न बुज्झसि ? ॥२॥" श्रुत्वेति भगवद्दाणीं स्कन्दको राजपुत्रैः पञ्चशतमित्रैर्ऋतं समाददे । ततो जिनेश्वरोऽन्यत्र विजहार । क्रमात् स्कन्दकयतिर्गणधरपदं प्राप । “बूढो गणहरसदो, गोअममाईहिं धीरपुरुसेहिं । जो तं ठवइ अपत्ते, जाणंतो सो महापावो ॥ १ ॥ ततः स्कन्दकसूरिस्तैर्यतिभिः समं देदीप्यमानसूर्यश्चन्द्रस्ताराभिरिव विजहार । अन्येद्युः I ational For Private & Personal Use Only www.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy