SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ लस्स ॥ ४ ॥ सूईहिं अग्गिवन्नाहिं, भिज्जमाणस्स जंतुणो । जारिसं जायए दुक्खं, गब्भे अडगुणं तओ ॥ ५ ॥ वत्स मेघ ! रात्रौ त्वमतीव साधुभिः पीडितोऽसि । परमात्मीयौ पूर्वभवौ शृणु । पश्चाद्यथा रोचते तुभ्यं तथा कुरु । अतस्तृतीयभवे वैताढ्यपर्वतभुवि षड्रदः सहस्रहस्तिनीपरिवृतो हस्ती सुमेरु प्रभाभिधः सितवर्णः त्वमभूः । दवातोऽन्यदा करिणीर्विहाय तृषाकान्तो भ्रमन्नितस्ततः सरो दृष्ट्वा पयः पातुं प्रविष्टः तदाऽप्राप्तनीरः पङ्के मनः । प्रत्यर्थिदन्तिभिरतीव कदर्थितस्तथा यथा वेदनया सप्तमदिने मृत्वा विंशत्युत्तरशतमायुः पालयित्वा विन्ध्यभूमावुत्पन्नो हस्ती । तत्रापि चतुर्दन्तो रक्तो दन्ती मेरुप्रभाभिधः सप्तशतहस्तिनीपरिवारपरिवृतोऽभूस्त्वम् । दवं वीक्ष्यान्यदा प्राप्तजातिस्मृतिः पूर्वभवं स्मृत्वा वर्षात्यये वीवृक्षतृणादिपुञ्जमुन्मूल्य च सर्वं दूरे क्षिप्त्वा | स्वपरिवारपरिवृतो योजनमात्रं स्थण्डिलमकार्षीः । अन्येद्युर्दवं जाज्वल्यमानं दृष्ट्वा भीतः स्वं पौरुषं विमुच्य करिप्यादिपरिवारं च स्वकृते स्थण्डिलेऽविशस्त्वम् । तत्र स्थण्डिलं बहुभिः श्वापदैर्निरिछद्रं पूर्णम् । एकदा त्वया | कण्डूयनेच्छया एकः पाद उ कृतः । कण्डूयित्वा पुनः पादं मुञ्चन् पदस्थाने शशकं स्थितं दृष्ट्वा कृपया पादस्तथैव रक्षितः | दिनद्ययान्ते दवानले उपशमिते शशेऽन्यत्र गते यावत्त्वया पादो मुक्तः तावगिरिकूटवत् पतितः । Jain Educarnational For Private & Personal Use Only www.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy