________________
॥ श्रीभरतेश्वरवृत्तिः ॥
॥ २१६ ॥
Jain Education
यदनेन चारित्रपात्रेण साधुना मदीये भोजनभाजने कफः क्षिप्तः । ततः पयसोऽतः सिताखण्डमिव कफं निःशुकं क्षुल्लकोऽभ्यवहरन् दध्यौ - एते साधवो महातपः पराश्चारित्रपात्रम् । अहं त्वभाग्यवानन्नकीटकजीव इव क्षणमपि अन्नं विना स्थातुं न शक्नोमि । एवमात्मानं पुनः पुनर्निन्दन् साधुगुणगणान् गृह्णानो बहुकालार्जितं | कर्मराशिं तृणपुञ्जमिव क्षमालवित्रेण छित्त्वा क्षीणकर्मा क्षुल्लकः केवलज्ञानं प्राप । तदा जिनशासनदेव्याऽभ्येत्य | देवैश्च केवलमहोत्सवः कृतो वन्दनापूर्वम् ॥ इति क्षमायां कूरघटकथा समाप्ता ॥ ४७ ॥
| जिनेन्द्रप्रतिमालोकनतः केऽपि जनाः स्फुटम् । लभन्ते स्वर्गसौख्यानि, श्रीशय्यंभव सूरिवत् ॥ १ ॥ तथाहि--अन्येद्युः श्रीप्रभवसूरिः गच्छमध्ये स्वपट्टधारकः को भविष्यतीति ध्यायन्निमामागमगाथां सस्मार"बूढो गणहरसद्दो गोयममाईहिँ धीरपुरिसेहिं । जो तं ठवइ अपत्ते, जाणतो सो महापावो ॥ १ ॥” इति श्रुतदत्तोपयोगः स्वगच्छे निजपदयोग्यं शिष्यं श्रावकमध्ये चापश्यन् राजगृहे श्रीशय्यंभवं भट्ट यागं कारयन्तं | स्वपट्टयोग्यमालोक्य तत्रागमत् । ततः साधुयुगं शिक्षयित्वा च तस्य गृहे सूरिः प्रेषयामास । तत्साधुयुगं तस्य गृहे गत्वा शय्यं भवभट्टे शृण्वति सति 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते पुनरिति वदत् पश्चाद्दलितं
For Private & Personal Use Only
श्रीशय्यंभवसूरि
कथा |
॥ २१६ ॥
Jainelibrary.org