________________
स कूरघटः स्वभावेन क्षमावानस्ति। यतः-"कोकिलानां स्वरो रूपं, नारीरूपं पतिव्रता। विद्या रूपं कुरूपाणां, क्षमा रूपं तपस्विनाम् ॥१॥” ततः श्रीगुरवो बहुपरिवारपरिवृताः श्रीपुरे जग्मुः। तत्र चतुर्मासी स्थिता गुरवः।। तेषां गुरूणां साधवः केचित्रिमासक्षपणं कुर्वन्ति, केचिद् द्विमासक्षपणं, केचिच्चतुर्मासक्षपणं, केचित्स्वाध्यायाध्ययन कुर्वन्ति, केचिद्वैयावृत्यं, केचित् क्षमामेव । तेषां सर्वेषां साधूनां मध्ये कूरघटो विशेषतः क्षमावानस्ति । स ] कूरघटः क्षुल्लको बुभुक्षालुर्बहुवारं भिक्षायै गच्छति श्राद्धगृहे । ततो लोकैरुक्तम्-अयं सत्यः कूरघटः क्षुल्लकः । स | च साधूनां वैयावृत्यं करोति अभिग्रहपूर्व-साधूनां वैयावृत्यं कृत्वा प्रथमालिकामानीय सुकाल एव पारणं कर्तुमुपविष्टो यावत् तावत् एकेन मासोपवासिना कफव्याधिमता साधुना क्रुद्धेनोक्तं-भो अधम ! खाभिग्रह-IN भञ्जक ? मया नाथितं श्लेष्मप्रक्षेपार्थ भस्मयुतं भाजनं त्वया नानीतं, खोदरपूरणायोपविष्टः, अहं क्षमावानिति कथं त्वं स्वमात्मानं ख्यापयसि ?, अधुना तव भोजनस्थाने एव श्लेष्मं व्युत्सृजामि, क्षुल्लकोऽवग्-अहं मुग्धोऽभूवं, |मम विस्मृतं, किं करोमि साम्प्रतं, ममाभाग्यम् । तदा स कफी साधुः क्रुद्धः संस्तस्याश्नतो भाजने कफं मुमोच । ततः क्षुल्लक उपशमधमैकदृढचित्तः प्रमुदितमानसः स्वमात्मानं निन्दन प्राह-मदीयं भाग्यं महद्वर्तते ।
Pujainelibrary.org
Join Educa
For Private 8 Personal Use Only
ional