________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ २१५ ॥
Jain Education
बोधितौ प्रभुणा च एकीभूय प्रभुरिक्षुरसेन पारणां कारितः । तदा देवैः सार्द्धद्वादशकोटीवृष्टिः कृता । तदा | श्रेयांसेन मुक्तियोग्यं कर्मार्जितम् । तथा च - सुपात्रमेकं हि युगादिदेवः, श्रेयांसनामा सुकृती द्वितीयः । राद्धा तृतीयेति तयोस्तृतीया, निर्द्वन्द्वरूपा प्रथिता जनेषु ॥ १ ॥ रिसहेससमं पत्तं, निरवज्जं इखुरससमं दाणं । सेयंस समो भावो, हविज्ज जइ मग्गियं दिज्जा ॥ २ ॥ इति श्रीश्रेयांसकथा समाप्ता ॥ ४६ ॥
कुर्वाणो मनुजो नित्यं, क्षमां वैरिषु देहिषु । निःश्रेयसश्रियं कूरघटवल्लभते श्रियम् ॥ १ ॥
तथाहि — कापि गच्छे श्रीधर्मघोषसूरयोऽभूवन् । तेषां साधवो विनीता बहवोऽभवन् ! अन्येद्युः श्रीगुरवः पृथिवीं प्रतिबोधयन्तो लक्ष्मीपुरे ययुः । तत्रानेके भव्यजीवा धर्मोपदेशं श्रोतुमाययुः । गुरुभिर्धर्मोपदेश इति ददे । पूया जिणिंदेसु रई वसु, जत्तो य सामाइयपोसहेसु । दाणं सुपत्ते सवणं सुसुत्ते, सुसाहुसेवा सुरलोअमग्गो ॥ १ ॥ कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीयं, दानं देयं सुपात्रे प्रतिदिनममलं पालनीयं च शीलम् । तप्यं शुद्धं स्वशत्तया तप इह महती भावना भावनीया, श्राद्धानामेष धर्मो जिनपतिगदितः पूतनिर्वाणमार्गः ॥ २॥ इत्यादिधर्मोपदेशं शृण्वन् धनदश्रेष्ठिनः पुत्रो लघुरपि कूरघटावो गुरुपार्श्वे संयमं जग्राह ।
For Private & Personal Use Only
कूरघट
कथा ।
॥ २१५ ॥
Gainelibrary.org