________________
Jain Education
भवामि कथम् ?, ततो दक्षिणपाणिः सगद्गदं श्रेयांसस्याग्रे प्राह - श्रेयांस ! श्रूयतां देव !, सेवकोऽहं यथाविधि । प्रतिष्ठामीदृशीं प्राप्तः, प्रभुपादप्रसादतः ॥ १ ॥ इन्द्रचन्द्रनरेन्द्राणां प्रत्यक्षं पश्यतामिह । अङ्गुष्ठेन सुधापानं, कारितः शैशवे मया ॥ २ ॥ वंशस्थापनसमये, शक्रहस्तान्मयेक्षवः । स्वीकृताश्छत्रचक्रादिलक्षणानामहं खनिः ॥ ३ ॥ महता महेन पाणिग्रहणं कन्ययोः कृतम् । मयैव स्थापितो राज्ये, भरतो भारताये ॥ ४ ॥ केदारतीर्थव्यापार भाग्यमुद्रादिधारकः । पूजाभोजनसज्जापदानानां कारकोऽन्वहम् ॥ ५ ॥ वर्षावधिमहादानसंतोषितजगञ्चयः । सोऽहं स्वल्पाशनस्याधो, भवामि न कदाचन ॥ ६ ॥ ततोऽहं दानं ग्रहीतुं परस्य हस्तस्याधो न भवामि । ततो वामो हस्तः प्राह-रे निर्लज ! मुधाऽऽत्मानं व्याख्यासि प्रसभं किमु ? ॥ परेण परिविख्यातो, निर्गुणोऽपि गुणीभवेत् । शक्रोऽपि लघुतां याति, स्वयंप्रख्यापितैर्गुणैः ॥ १ ॥ अतो निजगुणग्रामं, विज्ञास्त - न्वन्ति नो यतः । कर्पूररत्नमण्याद्या, ज्ञायन्ते स्वप्रभावतः ||२|| एवं मिथो द्वयोर्हस्तयोर्विवादं कुर्वतोः श्रेयांसः प्राह - कुलीनाः कुलजा दक्षा, नोपेक्षन्ते प्रभुं जनाः । स्वकुटुम्बविरोधे हि, निजा एव निजा ध्रुवम् ॥ ३ ॥ संजाते केवले तीर्थस्थापनायां महोदये । भवतोः समयो भावी, जगत्रितयहर्षदः ॥ ४ ॥ एवं श्रेयांसेन प्रति
For Private & Personal Use Only
jainelibrary.org