________________
॥ श्रीभरते. श्वरवृत्तिः॥ ॥२१४॥
वृत्तम् ।
विद्यते । एकदा श्रेयांसकुमारः स्वप्ने मेरुपर्वतं मलिनीभूतं सुधाभिरुज्ज्वलं व्यधामहमित्यद्राक्षीत् । तस्यामेव रात्रौ श्रीश्रेयांसकोऽपि महाभटः शत्रुभिराक्रान्तः श्रेयांसकुमारसांनिध्याजयीबभूवेति स्वप्नं सोमयशाभूपोऽपश्यत् । तस्यामेव निशि कुमा पुनः श्रेष्ठिना स्वप्नो दृष्टः-सूर्यमण्डलात् किरणानि पतन्ति श्रेयांसकुमारेण यत्नतः स्थाने स्थापितानि । प्रातर्महानुदयः श्रेयांसस्य भविष्यति इति यावद् ध्यायन्ति ते तावत् प्रभुः श्रीऋषभो वार्षिकतपोऽते भिक्षार्थ पुरीमध्ये समागात् । कोऽपि कन्यां लात्वा समायाति । कोऽपि वर्ण कोऽपि रूप्यं कोऽपि घोटकं कोऽपि गज सन्मुखं प्राभृतकरणार्थमानयति । प्रभु तत्सर्वं निषेधयन्तं वीक्ष्य गवाक्षस्थितः श्रेयांसकुमारः पुनःपुनरूहापोहेन किमेवंरूपो मया दृष्टः पुरा इति ध्यायन् जातिस्मृति प्राप पश्चाद्भवमपश्यच्च । ततो गवाक्षादुत्तीर्य प्रभु प्रणम्य यावच्छेयांसकुमारः कृताञ्जलिराहारार्थ बदति तावदकस्मादिक्षुरसपूर्ण घटशतं केनापि कोटुम्बिकेन । श्रेयांसकुमाराय प्राभृतीचक्रे । ततः श्रेयांसकुमारो निर्दोषमिक्षुरसं मत्वा प्राह-भगवन् ! इक्षुरसं गृहाण,d मां निस्तारय शुद्धाहारादानात् । ततो यावत् परमेश्वर इक्षुरसं ग्रहीतुं हस्तद्वयं मेलयति । तावदक्षिणकरो न स्थानाचलति । ततः स्वामी प्राह-भो दक्षिणकर ! कथं भिक्षांन लासि ? । स हस्तोऽवग्-अहं दातृहस्तस्याधो
॥२१४॥
Jain Educatio
n
al
For Private Personel Use Only
Mainelibrary.org