________________
जिणे । मायं चऽज्जवभावेण, लोभं संतोसओ जिणे ॥२॥” एते लोकास्तवकर्मरिपूणां हनने सखायो भवन्तः सन्ति तेन एते तव परमबान्धवाः । बान्धवा इह लोके सुखं ददते एते मुक्तिसुखं तव दास्यन्ति । एतेषु । लोकेषु रोषो न कार्यस्त्वया, कर्मणामुपरि कार्यः । यत उत्तमैर्हन्तरि पुरुषे क्रोधो न क्रियते, किन्तु कर्मविषये क्रियते कर्मोन्मूलनाय । यतः-पत्थरेणाहओ कीवो, पत्थरं डकुमिच्छइ । मिगारीओ सरं पप्प, सरुप्पत्ति विमग्गई। ॥१॥ लोकः प्रहारको नायं, मयि किन्तूपकारकः । गृह्णाति मम पापानि, ददाति सुकृतं निजम् ॥ २॥ हहा सत्कृपयैवामी, घातैरपि निषेध्य माम् । स्थाने ममामी नरकगुप्तौ वेक्ष्यन्ति बान्धवाः ॥ ३ ॥ इत्यादिभावना भावयतो दृढप्रहारियतेः क्षणे क्षणे प्रवर्द्धमानशुभाध्यवसायस्य क्रमाच्चतुर्दशगुणस्थानारूढस्य केवल-N ज्ञानमुत्पन्नम् । यतः-"प्रणिहन्ति क्षणार्डेन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥ १ ॥” तत्कालमेवायुषः क्षयान्मुक्तिपुरी दृढप्रहारी ययौ । इति दृढप्रहारीकथा समाप्ता ॥ ४५ ॥
वर्यभावात्सुपात्रेभ्योऽनवद्यं दानमङ्गवान् । ददानो लभते मुक्तिं, श्रीश्रेयांसकुमारवत् ॥ १॥ तथाहि-गजपुरे श्रीबाहुबलिपुत्रसोमयशाभूपो राज्यं करोति स्म । तस्य पुत्रः श्रेयांसकुमारो युवराजो
Jain Educat
i onal
For Private & Personel Use Only
jainelibrary.org