SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २१३ ॥ Jain Education विष्यति ? | मह्यं संयमं ददख यूयम् । ततो गुरुणा संसाराद्विरक्तं दृढप्रहारिणं मत्वा दीक्षा ददे तस्मै । तस्य तपः कुर्वतोऽयमभिग्रहोऽभूत् - यत्र दिने ममाघं स्मरिष्यते तावन्मया न भोक्तव्यम् । यतः - " अदः पापं स्मरिष्यामि, यत्र भोक्ष्येऽह्नि तत्र न । क्षमामहं करिष्यामि, निहन्तृष्वपि वैरिषु ॥१॥" इत्यभिग्रहं गृहीत्वा कुशस्थलग्रामे पूर्वं बहुवारान् अवस्कन्दीकृते दृढप्रहारी ययौ । उद्यानाद्भिक्षार्थं पुरे नगरे व्रजन् अयं स्त्रीपुरुष बालकगोघातक इति - कृत्वा लोकैर्डढप्रहारी सदा हन्यते दृढम् । ततो यदा यदा ग्राममध्ये विहर्तुं याति तदा तदा लकुटपाषाणादिभिर्लोकैईढप्रहारी ताड्यते भृशम्, तत एवं दृढप्रहारी ध्यायति-रे जीव ! त्वयाऽनेके जीवा एवं निष्कृपं हताः सन्ति अस्मिन् भवे, अन्येषां लोकानां निष्कृपं धनमपहृतमस्ति, त्वया कूटानि बहूनि जल्पितानि, अन्येषां जनानां स्त्रियोऽपहृताः सन्ति । स्त्रीभ्यो बालकानां वियोगो विहितोऽस्ति । गोवत्सरूपाणां वियोगोऽनेकशः कृतोऽस्ति । अभक्ष्यभक्षणं | कृतमस्ति । परेषु ईर्ष्या कृताऽस्ति । बहुभिः समं त्वयाकलहः कृतः कारितोऽस्ति, तेनाधुना सर्वप्रकारेणैषां लोकानां | मारणाद्यपराधः क्षन्तव्यः । क्रोधो न कर्तव्यः । क्रोधेन सर्वं पुण्यमर्जितमपि याति । यतः - "कोहो पीइं पणासेइ, | माणो विणयनासणो । मायामित्ताणि नासेइ, लोभो सङ्घविणासणो ॥ १ ॥ उवसमेण हणे कोहं, माणं मद्दवया tional For Private & Personal Use Only दृढप्रहारिकथा । ॥ २१३ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy