________________
Jain Educat
गौः शृङ्गमुत्पाट्य दधाव तं हन्तुम् । ततो दृढप्रहारिणा सा गौरपि हता, द्विधाकृता देहेन । ततो भार्या हाहाकारं कुर्वाणा दधावे तं प्रति । तदा तेन सा सगर्भा द्विजभार्या हता । तदा तस्याः स्त्रिया गर्भान्मृतं गर्भं द्विजं द्विजप्रियां गावं च मृतान् वीक्ष्य तदपत्यान् हाहाकारं कुर्वाणान् दृढप्रहारी वीक्ष्य दध्यौ - हा रुदतामेतेषां | द्विजापत्यानां मातृपितृमुक्तानां का गतिर्भविष्यति ? | अहमेव दुःखापादने निमित्तमभूवम् । इदृग्दुष्कर्मभारेण, | पापपङ्के सुदुस्तरे । ममाधो मज्जतः कः स्यादुपायः ? कोऽवलम्बनम् ? ॥ १ ॥ एवं ध्यायन् दृढप्रहारी वने साधून् | शान्तमानसान् धर्मध्यानलीनान् सर्वजीवरक्षाकरानालुलोके । एते साधवः क्षमावन्तः पूज्याः । यतः-वंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइअरागदोसा ॥ १ ॥ तो समणो जइ समणो, भावेण य जइ न होइ पावमणो । सयणे य जणे य समो, समो अ माणायमाणेसु ॥ २ ॥ नत्थि अ सि कोइ वेसो, पिओ व सर्व्वसु चेव जीवेसु । एएण होइ समणो, एसो अन्नोऽवि पज्जाओ ॥ ३ ॥ तान् नत्वा जगौ दृढप्रहारी - मया पुरुषस्त्रीगोबालकादीनां हत्या कृता कथं छुटिष्यते नरकान्तपापात् ? । एकेनापि जीवेन हतेन नरके पातो भवति नृणां, बहूनां जीवानामहं हन्ताऽभूवं तेन कथं संसारान्मुक्तिर्भ
ational
For Private & Personal Use Only
jainelibrary.org