________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ २१२ ॥
Jain Education
न्मुक्तिपुरीं जगामार्द्रकुमारयतिः । इति श्रीजिनदर्शनोत्तमसङ्गति विषये श्रीआर्द्र कुमारयति कथा समाप्ता ॥ ४४ ॥ क्षमया विहितानेकदुष्कृतोऽपि जनः क्षणात् । दृढप्रहारीव कल्याणपदवीं भजते स्फुटम् ॥ १ ॥ तथाहि — क्वापि पुरे जीर्णदत्तनामा द्विजो वसति स्म । तस्य पुत्रो दुर्नयदुर्द्धरो यज्ञदत्तोऽभूत् । क्रमात् पितरि | मातृयुते मृते आखेटादिकर्मकुशलो नगरान्निःसृत्य चौरपल्लिकां गतः । तत्र पल्लीनाथस्य भीमस्य मीलितः स द्विजः । पल्लीनाथेना पुत्रकेण स द्विजः पुत्रपदे स्थापितः । दृढप्रहारं सर्वजन्तुषु दत्ते स तेन तस्य दृढप्रहारीतिनामाभूत् । यतः - " यादृशं क्रियते कर्म, नाम तादृक् प्रजायते । यादृशं रोप्यते बीजं, फलं तादृक् समुद्भवेत् ॥ १ ॥” क्रमात् पल्लीनाथेन स्वान्त्यकाले खपदे स्थापितो दृढप्रहारी बहुभिल्लपरिवृतोऽनिशं स्तैन्यधाट्यादि कर्म कुर्वाणोऽन्यदा ग्रामलुण्टनाय कुशस्थलग्रामे गतः । इतस्तत्र देवशर्मा द्विजः कचित् षष्टितन्दुलान् दुग्धं च प्राप्य गृहे भार्यायाः अर्पयित्वा मध्याह्ने स्नातुं ययौ । देवशर्मगृहे घाटी समागता । चौरैस्तस्य गृहे लुट्यमाने तस्यापत्यैः पितुरग्रे प्रोक्तं गत्वा । स द्विजो रुषा राक्षसाविष्ट इव लकुटकमुत्पाट्य तान् हन्तुमागात् । द्विजस्तत्रागतो हक्कयन् चौरं हन्तुमधावत् । द्विजस्य धावतस्तस्य नालिकेरमिव [ तस्य ] मौलिं दृढप्रहारी चिच्छेद । तदा
ional
For Private & Personal Use Only
ढप्रहारिकथा ।
॥ २१२ ॥
ainelibrary.org