________________
कथितः। ततो राजादयः सर्वे लोकाश्चमत्कृताः।आर्द्रकुमारयतिराह-अयमभयकुमारो मम परमबान्धवः। यतोऽहं । तत्रानार्यदेशे श्रीयुगादिजिनबिम्बप्रतिमाप्रेषणात्प्रतिबोधितः । संसारकर्दमपतितोऽहमुद्धृतः । एतदाकाभय-al कुमारः श्रेणिकं प्रति जगौ-अधुनाऽहं दीक्षा ग्रहीष्यामि आदेशं देहि । मन्मित्रेण यत्कृतं तत्कर्तुं ममापि युक्तम् ।। श्रेणिकोऽवग्-पुत्र ! त्वयैवमधुना न वक्तव्यं, यदि त्वं बलादीक्षा ग्रहीष्यसि तदा मम हृदयस्फोटो भविष्यत्येव, पितृहत्या लगिष्यति तव । ततोऽभयकुमारः पितृवचसा गृहवासेऽपि शुद्धं श्राद्धधर्म पालयति । तत आर्द्रकुमारयतिर्बहुयतिश्रेणिकाभयकुमारयुक्तः समवसरणस्थं श्रीवीरजिनं त्रिः प्रदक्षिणीकृत्य वन्दते स्म भूयस्या । भक्त्या । ततो वीरो जगौ-शुद्धं चारित्रं त्वयाऽऽराधनीयम् । यतः-शुद्धचारित्रं विना संसारान्मुक्तिर्न भवति ।। यतोऽनन्तशो दीक्षा गृहीता जनैः, पुनः शुद्धां स्तोका एव पालयन्ति स्म । यतः-"संसारसागरमिणं परिभमतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य अणंतसो दव्वलिंगाई ॥१॥” धर्म एव परमबान्धवः, यतो धर्मादेव खर्गापवर्गादिर्भवति । यतः-धर्माजन्मकुले शरीरपटुता० ॥ ततः श्रेणिकादयः सर्वे श्रीवीरमन्यान् मुनींश्च । प्रणम्य यथास्थानं गताः । ततस्तीव्रतपोऽग्निना सर्वकर्मेन्धनानि स दहन क्रमात्केवलज्ञानमवाप्यायुषः क्षया-INI
Jain Educational
For Private
Personal Use Only
ainelibrary.org