SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ - ॥ २११ ॥ Jain Education लगति । एकेन्द्रियस्य धान्यस्य, जायते पञ्चभिः कणैः । पञ्चेन्द्रियत्वं न तृप्तिर्भूरिपञ्चेंद्रियो वधः ॥ १ ॥ ततस्ते तापसा दयाभासा एकं महान्तं करिणं तरुणा सह बबन्धुः । भारश्रृंखलाबद्धो हस्ती तमार्द्रकुमारमालोक्य श्रृंखलां जीर्णरज्जुमिव त्रोटयित्वा आर्द्रकुमारं वन्दितुं चलितः । तदा सर्वे तापसा हाहा अयं यतिर्हतो हत इति वदन्तो धाविताः । स हस्ती तु आर्द्रकुमारं ननाम । आर्द्रकुमारो जगौ - भो गजेन्द्र ! तव यदि धर्मरुचि - र्भवति तदा धर्म्ममङ्गीकुरु । ततः पुनः प्रणनाम । ऋषिणोक्तं- यदि तवानशनेच्छा विद्यते तदा गृहाण । तेन हस्तिनाऽनशनं गृहीतम् । ततस्ते तापसाः प्रतिबुद्धाः जीवदयासूत्रं धर्ममङ्गीकृतवन्तः, श्रेणिको राजाऽपि तापस प्रतिबोधगजश्रृंखलात्रोटनानशनग्रहणं च श्रुत्वाऽभयकुमारान्वितस्तत्रागतः । भक्त्या तमृषिं सपरिवारं राजा पुत्रपौत्रयुतो वन्दते स्म । ऋषिणा कल्याणकारिण्या धर्मलाभाशिषा स राजा प्रीणितः । ततो धर्मोपदेशमाकर्ण्य राजा पप्रच्छ - महदाश्चर्यमिदं यद्भवद्दर्शनाद्धस्तिना भारशृंखला लोहमयी त्रोटिता तन्महदाश्चर्यं विद्यते मम । मुनिरूचे - इदं शृंखलात्रोटनं सुकरं यत्तु आमतन्तुलतापाशत्रोटनं मया कृतं तत्सर्वेषां जन्तूनां दुष्करम् । राज्ञा पृष्ट - क आमतन्तुलतापाशत्रोटनसम्बन्धः कथ्यते भवता ?, तत आर्द्रकुमारेणात्मीयपुत्रवेष्टिततन्तुत्रोटनसम्बन्धः For Private & Personal Use Only श्रीआई कुमारचरित्रम् । ॥ २११ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy