SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जन्म दुर्लभं प्राप्य जनैस्तत्कार्य येन शुभगतिर्भवति । यतः–“जन्तूनामवनं जिनेशमहनं भक्त्याऽऽगमाकर्णनं, साधूनां नमनं मदापनयनं सम्यग् गुरोर्माननम् । मायाया हननं विशुद्धिकरणं लोभट्ठमोन्मूलनं, चेतःशोधनमिन्द्रियार्थदमनं यत्तच्छिवोपायनम् ॥ १॥ केनापि पुण्ययोगेन, मानुष्यकमवाप्यते । प्राप्तस्य च तस्य फलं, धर्मः स्वर्गापवर्गदः॥२॥दया जीवेषु सत्योक्तिरस्तेयं ब्रह्मचारिता।आकिञ्चन्यं च धर्मोऽयं, जिनैरेव निवेदितः॥३॥ ततः स्वामिभक्ता यदि भवन्तस्तदा मन्मार्गमाश्रयध्वमतीव सुखं भविष्यति च । ते सर्वे प्रोचुः त्वमस्मत्स्वामी वर्तसे, यदादिश्यते भवता तदस्माभिः करिष्यते । ऋषिः प्राह-मत्तुल्या भवन्तु भवन्तः, ततस्तैदीक्षा गृहीता। ततस्तैर्यतिभिः सममार्द्रकुमारः श्रीमहावीरं वन्दितुं गच्छन् राजगृहोपान्तस्थोद्याने ययौ । तत्र तापसा हस्तिनं । महान्तं हत्वा तन्मांस भक्षयन्तस्तिष्ठन्ति स्म । तान् तादृशं कर्म कुर्वतो वीक्ष्यार्द्रकुमारः प्राह-भो महानुभागाः! जीवहिंसा न क्रियते, जीवहिंसयाऽधोगतिर्भवति । अस्नि वसति रुद्रश्व, मांसे वसति जनार्दनः।शुक्रे च वसति | ब्रह्मा, तस्मान्मांसं न भक्षयेत् ॥ १॥ तिलसर्षपमानं तु, मांसं यो भक्षयेन्नरः । स निवर्तते नरकं, यावचन्द्रदिवाकरौ ॥२॥ ते प्रोचुस्तापसाः-वयमेकं महान्तं जीवं हत्वा जीवामः भवन्तश्च बहून् तेन भवतां महत् पापं - भरते. ३६ Jnin Educatellona For Private Personel Use Only ainelibrary.org H
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy