SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Jain Educat उत्थायार्द्रकुमारस्तंतून् गणयामास । द्वादश तन्तवो जाताः । ततः प्रिया प्रोक्तम् - अहं दीक्षां ग्रहीतुं यियासुरभूवं कल्ये परं पुत्रेण तन्तवो द्वादश वेष्टिताः पादयोर्मम परितस्तेन मया द्वादश वर्षाणि स्थितम् (त्वा) ततः | परं निश्चयाद्दीक्षा ग्राह्या मया । ततः सूनुप्रतिबन्धेन द्वादश वर्षाणि स्थित्वाऽन्येद्यू रात्रौ दध्याविति आर्द्रकुमारः । भवकूपाद्विनिर्गन्तुं व्रतमालम्ब्य रज्जुवत् । मया प्राप्तं च मुक्तं च, मग्नस्तत्रास्म्यहं पुनः ॥ १ ॥ मनसैव व्रतं भग्नं, प्राग्जन्मनि तथाप्यहम् । अनार्यत्वं प्रपन्नोऽस्मि, का गतिः स्यादतः परम् ? ॥ २ ॥ भवत्विदानीमप्यात्मपरिव्रज्यातपोऽग्निना । साक्षात् प्रक्षालयिष्यामि, मलिनीभूत हेमवत् ॥ ३ ॥ ध्यात्वेति प्रगे पत्नीपुरतो जगाद आई| कुमारः - दीक्षां लास्याम्यहम् । पत्नी जगौ - त्वां विनाऽहं कथं भविष्यामि ?, पुत्रश्च कथं भविष्यति ? । आर्द्रकुमारोऽवग्-पत्नि ! कथमेवं त्वयोच्यते ?, कोऽपि कस्यापि नास्ति । आत्मीयात्मीयकर्मणा जीवाः संयुज्यन्ते वियुज्यन्ते च, यतः - "जातश्चैको मृतश्चैक, एको धर्मं करोति च । पापं स्वर्गसुखे जीवः, श्वभ्रे गच्छति कः समम् ? ॥१॥ मूढाः कुर्वन्ति ये मे मे, वपुःपुत्रगृहादिकम् । तेऽपि त्यक्त्वा च रोगार्ता, मज्जन्ति भवसागरे ॥ २ ॥ अन्यो जीवो भवेद्यत्र, देहात्तत्र गृहादिकम् । कथं मे मे तनुर्गेहं कलत्रं कुरुतेऽङ्गवान् ? ॥ ३ ॥ कुटुम्बधनधान्यादि, ational For Private & Personal Use Only www.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy