SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Jain Education गजाकृतिचिह्नयुता दृष्टा । तेन तादृशं चिह्नमपरस्य कस्यापि न भविष्यति । पिताऽवग्- किं करिष्यते ? । कन्याऽवग्-अहं तथा करिष्ये यथा स मे पतिर्मिलिष्यति । ततः पित्रा प्रोक्तं कुरु स्वहितम् । ततचतसृभ्यो दिग्भ्य आगतान् यतीन् प्रतिलाभयन्ती शुद्धान्नपानादिनाऽभिग्रहं ललौ श्रीमतीति - ऋषीणां पादतलवन्दनं विना | मया नान्नपानादि ग्राह्यम् । ततश्चतसृभ्यो दिग्भ्य आगतानां यतीनां शुद्धान्नपानादि दत्त्वाऽप्रितलानि वन्दते भक्त्या । तस्या एवं कुर्वन्त्या द्वादशाब्दानि ययुः । दिङ्मूढो देव्या मोहितः स मुनिस्तत्रागात् । ततस्तं मुनिमुपलक्ष्य प्रतिलाभयन्ती श्रीमती पादतलं तस्य वन्दमाना जगौ - तदा देवकुले त्वं वृतोऽसि मया । त्वमेव वरो मम । तदा मां विप्रतार्य त्वं गतः । अधुना कथं मद्धस्तचटितो यास्यसि ? | यदि मामवगणय्य यास्यसि तदा मया तुम्यमात्महत्या देया, स्त्रीहत्यापातकं श्वभ्राय भवति । राजादिषु सर्वेषु लोकेषु मिलितेषु श्रीमती तं यति हस्ते गृहीत्वाऽस्थात् । राजा जगौ - यदि त्वमिमां वरिष्यसि तदेयं जीविष्यति, नो चेत्तवात्महत्यां दास्यति । तत आईकुमारो यतिर्देवतावाणीं सस्मार । न देवतोक्तं भोगफलमागतमन्यथाकर्तुं शक्यम् । किं क्रियते देवतावचोऽन्यथा न भवति । आगतं कर्म केनाप्युकंधितुं न शक्यते । यतः -- “ आरोहतु गिरिशिखरं, समुद्रमुघ्य यातु For Private & Personal Use Only Iainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy