________________
॥ श्रीभरते-
कुमार
श्वरवृत्तिः॥ ॥२०८॥
लंगित्वा श्रीमती यते ! त्वमेवास्मिन् भवे मम पतिरिति जल्पन्ती बभूव । अनुकूलोऽयमुपसर्गो मद्बतभङ्गाया श्रीआईभविष्यति इति ध्यात्वाऽनगारशिरोमणिरन्यत्र विजहार। तां देवताकृतरत्नवृष्टिमादित्सू राजा तया देव्या निषिद्धः। चरित्रम् । ततो राज्ञा तद्धनं तस्या वरणे वरस्यैव भविष्यतीति प्रोक्तम् । ततः श्रीमतीपितुरेव तदनं राज्ञाऽर्पितम् । ततः। सर्वे लोकाः स्वस्वस्थानं ययुः । राजाऽपि स्वस्थानं गतः। अथ तां कन्यां मार्गयितुं बहवों वराः समायान्ति, तथापि श्रीमती जल्पति स्म-यो मया पूर्व वरोऽङ्गीकृतः स एव मे पतिर्भवतु, नो चेदग्निरेव शरणम् । कन्या त्वेकवारमेव परिणीयते, न द्वितीयवारम् । यतः-"सकृजल्पन्ति राजानः, सकृजल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत् ॥ १॥” ततः श्रेष्ठी प्राह-पुत्रि ! स महर्षिः कथं प्राप्यः यो नैकत्र तिष्ठति क्षणमपि ? । अलिरिक स्थाने स्थाने भ्रमति स यतिः कथमत्रायास्यति ?, आगतो वा कथमुपलक्ष्यते ? कथं च तस्य नाम ज्ञायते ? अभिज्ञानं तु किमपि नास्ति। भिक्षवस्तु बहवो यान्त्यागच्छन्ति च, तेन न ज्ञायते स वरः सम्यम्। ततः कदाग्रहो न क्रियते । यतः-वज्रलेपस्य मूर्खस्य, नारीणां मर्कटस्य च । एको ग्रहस्तु मीनानां, नीलमद्यपयोरिव ॥ १॥ श्रीमती जगौ-यदाऽहं तस्य यतेः पादयोर्लग्ना तदा मया विद्युदुद्योतेन ऊर्ध्वरेखा
For Private Personal Use Only
LGmainelibrary.org
Jain Educat