SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ दीथाः । कृतकर्म भोगं विना न छुटति जीवः । यतः-"कत्थइ जीवो बलिओ, कत्थइ कम्माई हुंति बलियाई । जीवस्स य कम्मस्स य, पुव्वनिबहाइं वयराइं ॥ १॥ कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ २ ॥” देवतयैवं वारितोऽपि प्रत्येकबुद्धो यतिरभूदाईकुमारः । ततः पालयनिरतिचारचारित्रं वसन्तपुरपत्तनमार्द्रकुमारऋषिः (आगतः) क्रमात् बाह्यदेवकुले प्रतिमया तस्थौ रात्रौ यतिः। इतः पश्चाद्भवपत्नी बन्धुमतीदेवः स्वर्गाच्युत्वा वसन्तपुरे धनदत्तश्रेष्ठितनया श्रीमतीनाम्नी पुत्री बभूव । जन्मोत्सवः । कृतः । क्रमाद् धर्मकर्मसर्वकलाकुशलाऽजनि च । अन्यदा समानवयस्तुल्याभिरिभ्यपुत्रीभिः परिवृता रन्तुं पतिरमणक्रीडया देवकुले ययौ । तदा सर्वाः कन्याः बालक्रीडया जगुः एते सर्वे स्तम्भा वरतुल्या विद्यन्ते । वयं । सर्वाः कन्याः । यस्या यादृशो वरो रोचते चित्ते तया स्वमनरुचितोऽङ्गीकरणीयः । ततस्ताः सर्वाः खस्वस्तम्भ वरबुद्ध्याऽङ्गीचक्रुः । श्रीमती स्तम्भमलभमाना तमाईकुमारं यतिमङ्गीकृत्येत्युवाच-मया भट्टारको वृतः। तदाऽकस्मादाकाशे साधु साधु वृतमिति जल्पन्ती देवता रत्नवृष्टिं गर्जितादिपुरस्सरं चकार भाग्यात् । यतः-"सुराज्यं । का सम्पदो भोगाः, कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं, धर्मस्यैतत्फलं विदुः॥१॥” ततस्तस्य यतेः पदयो-II Jain Educati o n For Private & Personel Use Only jainelibrary.org ISO
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy