________________
॥ श्रीभरतेश्वरवृत्तिः ॥
॥ २०७ ॥
Jain Education
विधेहि तद्धर्मविधानधन्यतां, पिधेहि धीमन् ! विषयानुषङ्गिताम् । संधेहि संतोषसुहृत्त्वमुत्तमं निधेहि लक्ष्मीं परलोकलिप्सया ॥ २ ॥ लज्जातो भयतो वितर्कविधितो मात्सर्यतः स्नेहतो, लोभादेव हठाभिमानविषयाच्छृङ्गारकीर्त्यादितः । दुःखात् कौतुकविस्मयव्यवहृतेर्भावात्कुलाचारतो, वैराग्याच्च भजन्ति धर्मममलं तेषाममेयं फलम् ॥ ३ ॥ संझरागजलबब्बुओवमे, जीविए जलबिन्दुचञ्चले । जोवणे नइवेगसंनिहे, पाव ! जीव किमयं न बुज्झसि ? ॥ ४ ॥ इयं मायारात्रिर्बहलतिमिरा मोहललितैः, कृतज्ञानालोकास्तदिह निपुणं जाग्रत जनाः ! । अलक्ष्यः संहर्तुं ननु तनुभृतां जीवितधनान्ययं कालचौरो भ्रमति भुवनान्तः प्रतिगृहम् ॥ ५ ॥ धर्मात् शम्बलतो नृदेवखचरव्यालेन्द्रसौख्यंभवे, दत्रामुत्रच चन्द्रनिर्मलयशःपूजादिकं प्रत्यहम् । पापेनैव च दुःखदुर्गतिभवं श्वभ्रादिकं दुःसहं, निन्दाकीर्तिगणं तदेव कुरुतो भ्रातर्यदिष्टं तव ॥ ६ ॥ इत्यादि धर्मोपदेशमाकर्ण्य वैराग्यवासिताशयोऽभूदार्द्रकुमारः । ततः स्वयं सप्तक्षेत्र्यां धनमुत्वा यावद्यतिलिङ्गमुपादत्ते स्मार्द्रकुमारः सर्वविरति - सामायिकदण्डकोच्चारपूर्वं तावदाकाशस्थितया च देवतयोचे - यद्यपि त्वं महासत्त्ववानसि साम्प्रतं दीक्षां ग्रहीष्यसि त्वं च तन्न युक्तं तव । यतस्ते भोगफलं कर्म बहु विद्यते, तेन भोगफलं भुंक्त्वा कियत्कालं पश्वाद्दीक्षामाद
tional
For Private & Personal Use Only
श्रीआईकुमारचरित्रम् ।
|| 2019 ||
jainelibrary.org