SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ तत्सर्वं वस्तु कोशागृहीतव्यम् । ततः पितृप्रदत्तैः सेवकैः परिवृतः कुमारः स्वस्थानके समागतः । यदा यदा IN क्रीडायै बहिर्गच्छति तदा तदा ते सर्वे सेवका देहं छाया इव तमार्द्रकुमारं न मुञ्चन्ति । तत आर्द्रकुमारो बन्यां धृतमिवात्मानं मन्यमानो दध्यौ-किं क्रियते स्वर्णनिगडानीवैते सेवका मम पदबन्धका जाताः, किं । करिष्यते ? कथमभयकुमारो मिलिष्यति ?। ततः प्रत्यहं वाहाल्यां पुराबहिस्तुरङ्गमान् खेलयन् दूर दूरतरं दूरतमं गत्वा । पुनर्व्याघुट्य पश्चादायातिस्मकुमारोऽभयकुमारोपान्ते गन्तुं, सर्वेऽपि सेवका विश्वस्ता जाताः, किमपि मनसि नानयन्ति । कुमारस्तु तेषामुदरपूरणं यथेष्टं सदन्नपानदानादिभिः करोति स्म । अश्वारूढाः सर्वे सेवकाः कुमारस्य पार्श्वे तिष्ठन्तिस्म । ततश्चाकसूनुर्निजैः प्रत्यायितैः पुम्भिर्याने सज्जीकृते तां प्रथमजिनप्रतिमा खपार्श्वे छन्नं रक्षतिस्म । ततोऽन्यदा कियज्जात्यरत्नसमूहमादाय आदिजिनप्रतिमासहितो घोटकं खेल्लयन् यानपार्थे गत्वा तमारुह्य कुमारः समुद्राध्वनि चचाल । यानादुत्तीर्य कुमारो यावलक्ष्मीपुरे समागात्तावत्तत्र श्रीपुण्यनन्दनसूरयः समाययुः । ततस्तत्र धर्म श्रोतुमार्द्रकुमारो ययौ । श्रीगुरुभिर्देशना कृता । तथाहि-नृपत्वचक्रित्वहरित्ववैभवं, धर्मः प्रदत्ते नृभवं नवं नवम् । जल्पैरनल्पैः किमु कल्पयत्ययं, स्वल्परहोभिः परमार्हतः श्रियम् ? ॥१॥ 10 Jain Education allonal For Private & Personal Use Only Pldiainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy