________________
॥ श्रीभरते- श्वरवृत्तिः॥
॥२०६॥
कृतानशनोऽहं मृत्वा दिवि देवोऽभूवम्। ततश्च्युत्वाऽहमुत्पन्नोऽनार्यदेशे राजपुत्रो धर्मविवर्जितः । मया धर्मः श्रीआईखण्डितस्तेनानार्यदेशेऽहमुत्पन्नः, अधुना योऽभयकुमारो जिनबिम्बप्रेषणेन प्रतिबोधयति स मम परमबान्धवो गुरुश्च।।
कुमार
विचातसमम परमबान्धवागुरुवाचरित्रम्। तेन पितरमनुज्ञाप्य तत्रार्यदेशे गत्वाऽभयकुमारस्य मत्रिणो मिलिष्यामि। स मम गुरुरस्ति । एवं मनोरथं कुर्वन् । श्रीयुगादिजिनार्चापरोऽभयपाधै गन्तुकामश्च तातसंनिधौ जगाद-श्रेणिकपुत्रस्याभयकुमारस्य मिलनार्थं गन्तुकामोऽस्मि । आर्द्रकदेशेशोऽवग्-तत्र त्वया न गन्तव्यं, विदेशो विषमो विद्यते । वत्स ! स्वस्थानस्थितस्य पुंसः शोभा भवति । ततः पित्रा निषिद्ध आर्द्रकुमार उत्कण्ठितोऽस्थात् वारिबह इव द्विपः । यतः-"आसने के शयने याने, भोजने च क्रियासु च । अभयालङ्कृतामाशां, प्रति दत्तमना अभूत् ॥१॥” ततः कीदृग् मगधदेशोऽस्ति?कीहक् श्रेणिकराजाऽस्ति ? कीदृग् अभयकुमारोऽस्ति? इत्यादि नित्यं पृच्छन् पथिकान् कुमारस्तस्थौ । कुमार चलचित्तं मत्वा स्वपार्श्वस्थान सेवकान् प्रति जगौ नृपः-भवद्भिः पञ्चशतमितैः कुमारस्य सेवा कार्या। कुमारों राजगृहपुरे अभयकुमारान्तिके यियासुरस्ति, तेन यत्नतस्तत्र गच्छन् विलोक्यः, इयं वार्ता तस्य न ज्ञाप्या। ओमित्युक्ते। तैः सेवायै समायाताय कुमाराय राजा जगौ-पुत्र ! तवैते मत्सेवकाः सेवां कुर्वन्तु । यद्यवस्तु तव विलोक्यते
॥२०६॥
Jain Education
a
l
For Private Personel Use Only
Wihinelibrary.org